________________
स्वोपक्ष
वृति
विभूषितं যায়
द्वितीयः प्रकाशः श्लोक: ९९ ॥३५८॥
||३५८॥
एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्या विश्वासभूतं तं न्ययोजयत् ॥१७३॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥१७४॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥१७५॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥१७६।। प्रचचालाथ सुग्रीवोऽश्वानां ग्रेवेयकस्वनः । दिशो मुखरयन् सर्वा वेगाद् दरमदूरयन् ॥१७७॥ पाताललकां स प्रापक्षणेनाप्युपवेश्मवत् । विराधं चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥१७८॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् ॥१७९।। सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः। क्षुते हि सर्वथा मूढे शरणं तरणिः खलु ॥१८०।। स्वयं दुःख्यपि तदुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ।।१८१॥ सीताहरणवृत्तान्तं विराधेनावबोधितः । रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः ॥१८२॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो वेः। न कापि कारणापेक्षा देव वच्मि तथाप्यदः ॥१८३।। त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽपि तवानुगः। आनेष्यामि प्रवृत्ति च सीताया नचिरादहम् ।।१८४॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥१८५।। रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥१८॥
Jain Education Inte
For Private & Personal Use Only
T
ww.jainelibrary.org