________________
॥३५९॥
निनदन विटसुग्रीवोऽप्यागादाह्वानमात्रतः। रणाय नालसाः शूरा भोजनाय द्विजा इव ॥१८७।। दुद्धरेश्वरणन्यासैः कम्पयन्ती वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥१८८।। रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥१८९।। भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्रावर्ताभिधधनुष्टङ्कारमकगेत्ततः ॥१९॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥१९१|| विमोह्य मायया सर्व परदारै रिरंससे । पापारोपय रे चापमिति रामस्ततर्ज तम् ।।१९२॥ एकेनापीषुणा प्राणांस्तस्याहाद्रिचूद्वहः । न द्वितीया चपेटा हि हरेहरिणमारणे ॥१९३।। विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥१९४।। इतश्च रामकार्यायाऽऽगाद्विराधः समं बलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥१९५।। भामण्डलोऽपि तत्राऽऽगाद् विद्याधरचमूवृतः। प्रभुकार्य कुलीनानामुत्सवो द्युत्सवादपि ॥१९६।। जाम्बवदनुमन्नीलनलादीन विदितौजसः। सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥१९७॥ विद्याधरचमूचक्रेष्वायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ।।१९८।। हनूमानाअनेयोऽयं विजयी पावनअयिः । सीताप्रवृत्ये लङ्कायां त्वदादेशाद् ब्रजिष्यति ।।१९९॥
॥३५९॥
१ पलायिता-ख. च.॥
Jain Education Inc
hal
For Private & Personal use only
|www.jainelibrary.org