________________
स्वोपक्षवृत्तिविभूषितं योगशाखम
द्वितीयः प्रकाशः श्लोकः ९९ ॥३६०॥
॥३६०॥
रामेणाज्ञापितो दत्त्वा स्वमभिज्ञानमूमिकाम् । नभस्वानिव नभसा नभस्वत्तनयो ययौ ॥२०॥ सोऽगात् क्षणेन लङ्कायामुद्याने शिशपातले । सीतामपश्यद् ध्यायन्तीं नाम रामस्य मन्त्रवत् ॥२०१॥ तरुशाखातिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥२०२॥ तदेव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽसीत् सानन्दा त्वद्य जानकी ॥२०३।। मन्ये विस्मृतरामेयं रिम्सुमयि संप्रति । तद् गत्वा बोध्यतामेवमूचे मन्दोदरी स तु ॥२०४॥ ततश्च पत्युर्दूत्येन तत्र मन्दोदरी ययौ। प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥२०५।। अद्वैतैश्चर्यसौन्दर्यवर्यस्तावदशाननः । त्वमप्यप्रतिरूपेव रूपलावण्यसम्पदा ॥२०६॥ यद्यप्यज्ञेन देवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथापि ह्यस्तु संप्रति ॥२०७।। उपेत्य भजनीयं तं भजन्तं भज रावणम् । अहमन्याश्च तद्राश्यस्त्वदाज्ञां सुभ्र ! विभ्रतु ॥२०८।। सीताप्यवोचदाः पापे पतिदूत्यविधायिनि । त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि कस्तव ।।२०९।। रामस्य पाश्र्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक धवं तव सबान्धवम् ॥२१०॥ उत्तिष्टोत्तिष्ट पापिष्ठे वच्मि नातः परं त्वया। सीतया तजितेवं सा सकोपा प्रययौ ततः ॥२१॥
अथावतीर्य हनुमान् सीतां नत्वा कृतालिः । इत्यूचे देवि जयति दिष्टया रामः सलक्ष्मणः ॥२१२॥ १ तुलना-त्रिषष्टि० ७ । ६ । ३३२-३४३ ॥ २-ख. च. ड.। तामित्यादिक्षत् मन्दों मु.॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org