SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ॥३६१॥ त्वत्प्रवृत्तिकृते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ॥२१३॥ पतिदूतं हनूमन्तमभिज्ञानसमर्पकम् । प्रीता सीताऽप्यथाशीभिरमोघाभिरनन्दयत् ।।२१४॥ हनूमदुपरोधेन रामोदन्तमुदा च सा। एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥२१५॥ प्राभानिः प्रभञ्जन इवोद्यानस्य भने । प्रवृत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥२१६॥ भज्यमानं तदद्यानं तेन मानमिवोच्चकैः। उपेत्य दशकण्ठस्याऽशंसन्नुद्यानपालकाः ॥२१७॥ आरक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन विचित्रा हिरणे गतिः ॥२१८।। आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः। तद्वन्धायामुचत् पाशान् पाशैः स्वं सोऽप्यबन्धयत् ॥२१९॥ नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा । उत्पपातापास्तपाशस्तडिद्दण्ड इवाऽऽनिलिः ॥२२०॥ हन्यतां गृह्यतां चेष इति जल्पति रावणे। अनाथामिव सोऽभाक्षीत्तत्पुरीं पादददेरेः ॥२२१।। क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ।।२२२॥ रामस्तं गाढमापीड्योरसा सुतमिवौरसम् । लङ्काविजययात्राये सुग्रीवादीनथादिशत् ॥२२३॥ समुद्रं रावणारक्षं बद्ध्वा सेतुं च राघवः । लङ्कापुरी विमानस्थः सुग्रीवाद्यैः समं ययौ ॥२२४।। निवेश्य कटकं रामो हंसद्वीपान्तरे ततः। अववेष्टद् बलैर्लङ्कामेकपाटकलीलया ॥२२५।। १ तुलना-त्रिषधि०७।६। ३५४ ॥ For Private & Personal Use Only a Jain Education Inte w .jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy