Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा० अवचूर्णिः
सम्यक्त्वपराक्रमाध्ययनम्
॥३३॥
तस्य सम्यक्त्वपराक्रमाध्ययनस्य, णमिति वाक्यालङ्कारे, अयं-अनन्तरमेव वक्ष्यमाणोऽर्थ अभिधेयं, एवं अमुना प्रकारेणाख्यायते-कथ्यते, महावीरेणेति गम्यं, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः, संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ साधर्मिकगुरुशुश्रूषणं आर्षत्वाच्चैहोत्तरत्र चान्यथा पाठः ४ आलोचना ५ निंदा ६ गर्दा ७ सामायिकं ८ चतुर्विंशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षमणा १७ स्वाध्यायो १८ वाचना १९ परिप्रच्छना २० परावर्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनाः संनिवेशना २५ संयमः २६ तपो २७ व्यवदानं २८ सुखशाता २९ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ संभोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं | ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसंपूर्णता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ आर्जवं ४८ माईवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा ५६ वचःसमाधारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ घाणेन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयः ६७ मानविजयः ६८ मायाविजयः ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ इत्यक्षरसंस्कारः । २।१४ ।
KeXOKeXOX IXOXOXOXOXOKOKX
सम्यक्त्वपराक्रमे संवेगादीनि द्वाराणि
॥२३३॥
Jain Education Indian
For Private & Personal use only
library.org