Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
शब्दादयो धनकनकादयो वा तेषु इव यथा राजानो न निर्विद्यते ॥ ५ ॥ ९९ ॥ कम्म० ॥ १०० ॥ बह्वयो वेदनाःशरीरव्यथा येषां ते तथा, विनिहन्यन्ते विशेषेण निपात्यन्ते अर्थात्कर्मभिः ॥ ६ ॥ १०० ॥ कथं तर्हि मनुजत्वावाप्तिरित्याह
कम्माणं ० ॥ १०१ ॥ कर्मणां नृगतिविबन्धकानां प्रहान्या - अपगमेनानुपूर्व्या क्रमेण न तु झगित्येव, तुरेवार्थे कदाचिदेव, शुद्धि-क्लिष्टकर्मविगमात्मिकां आददते मनुष्यताम् ॥ ७ ॥ १०१ ॥ माणुसं० ॥ १०२ ॥ मनुष्यसम्बन्धिनं 'लढुं 'त्ति लब्ध्वापि यं धर्म यस्माद्वा श्रुत्वा क्षान्ति-मानादिजयोपलक्षणम्, अहिंस्रतां शेषव्रतोपलक्षणम्, एवं दशविधयतिधर्मास्याभिधानम् ॥ ८ ॥ १०२ ॥ आहच्च० ॥ १०३ ॥ आहचेति –— कदाचित् श्रवणम्, मनुष्यत्वं च लब्ध्वापि नैयायिकं - न्यायोपपन्नं, मार्ग सम्यग्दर्शनाद्यात्मकं मुक्तिपथं परिभ्रश्यन्ति मार्गादेव, इहैव निह्नववक्तव्यतां केचिद् ब्रुवते ॥ ९ ॥ १०३ ॥ ० ॥ १०४ ॥ त्वं वीर्यं संयमविषयं सूत्रत्वान्नो एतं धम प्रतिपद्यन्ते ॥ १० ॥ १०४ ॥ चतुरङ्गस्य फलमाह – माणुस० ॥ १०५ ॥ निधुनोति रजः - कर्म्म मुक्तिमाप्नोतीति भावः ॥ ११ ॥ १०५ || आमुष्मिकं फलमुक्त्वेव तदाह
सोही ० ॥ १०६ ॥ शुद्धिः - कषायकालुष्यापगमो भवतीति गम्यम्, ऋजुकभूतस्य चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य, तथा च धर्मः क्षान्त्यादिः, धर्मावस्थितौ च निर्वाणं - जीवन्मुक्ति, " तणसंधारे "त्यादिचनात् तपस्तेजसा ज्वलितस्तद्वत् घृततर्पिता सिमानः ॥ १२ ॥ १०६ ॥ शिष्योपदेशमाह - वि०ि ॥ १०७ ॥ विगिञ्च पृथक्कुरु कर्म्मणो मानुष्यत्वादिविबन्धकस्य हेतुं - मिथ्यात्वादिकं, तथा यशोहेतुत्वाद्यशः- संयमो विनयो वा, सञ्चिनु क्षान्त्या उपलक्षणत्वान्मार्दवादिभिच 'पाठ'ति परप्रसिद्ध्या पार्थिवं पृथ्वीविकारम्, ऊर्ध्व दिशं प्रक्रामति- प्रकर्षेण याति भवान् ॥ १३ ॥ १०७ ॥ तद्भवसिद्धिकान् प्रत्युक्तम्,
For Private & Personal Use Only.
Jain Education Intional
lainelibrary.org
Loading... Page Navigation 1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480