SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ शब्दादयो धनकनकादयो वा तेषु इव यथा राजानो न निर्विद्यते ॥ ५ ॥ ९९ ॥ कम्म० ॥ १०० ॥ बह्वयो वेदनाःशरीरव्यथा येषां ते तथा, विनिहन्यन्ते विशेषेण निपात्यन्ते अर्थात्कर्मभिः ॥ ६ ॥ १०० ॥ कथं तर्हि मनुजत्वावाप्तिरित्याह कम्माणं ० ॥ १०१ ॥ कर्मणां नृगतिविबन्धकानां प्रहान्या - अपगमेनानुपूर्व्या क्रमेण न तु झगित्येव, तुरेवार्थे कदाचिदेव, शुद्धि-क्लिष्टकर्मविगमात्मिकां आददते मनुष्यताम् ॥ ७ ॥ १०१ ॥ माणुसं० ॥ १०२ ॥ मनुष्यसम्बन्धिनं 'लढुं 'त्ति लब्ध्वापि यं धर्म यस्माद्वा श्रुत्वा क्षान्ति-मानादिजयोपलक्षणम्, अहिंस्रतां शेषव्रतोपलक्षणम्, एवं दशविधयतिधर्मास्याभिधानम् ॥ ८ ॥ १०२ ॥ आहच्च० ॥ १०३ ॥ आहचेति –— कदाचित् श्रवणम्, मनुष्यत्वं च लब्ध्वापि नैयायिकं - न्यायोपपन्नं, मार्ग सम्यग्दर्शनाद्यात्मकं मुक्तिपथं परिभ्रश्यन्ति मार्गादेव, इहैव निह्नववक्तव्यतां केचिद् ब्रुवते ॥ ९ ॥ १०३ ॥ ० ॥ १०४ ॥ त्वं वीर्यं संयमविषयं सूत्रत्वान्नो एतं धम प्रतिपद्यन्ते ॥ १० ॥ १०४ ॥ चतुरङ्गस्य फलमाह – माणुस० ॥ १०५ ॥ निधुनोति रजः - कर्म्म मुक्तिमाप्नोतीति भावः ॥ ११ ॥ १०५ || आमुष्मिकं फलमुक्त्वेव तदाह सोही ० ॥ १०६ ॥ शुद्धिः - कषायकालुष्यापगमो भवतीति गम्यम्, ऋजुकभूतस्य चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य, तथा च धर्मः क्षान्त्यादिः, धर्मावस्थितौ च निर्वाणं - जीवन्मुक्ति, " तणसंधारे "त्यादिचनात् तपस्तेजसा ज्वलितस्तद्वत् घृततर्पिता सिमानः ॥ १२ ॥ १०६ ॥ शिष्योपदेशमाह - वि०ि ॥ १०७ ॥ विगिञ्च पृथक्कुरु कर्म्मणो मानुष्यत्वादिविबन्धकस्य हेतुं - मिथ्यात्वादिकं, तथा यशोहेतुत्वाद्यशः- संयमो विनयो वा, सञ्चिनु क्षान्त्या उपलक्षणत्वान्मार्दवादिभिच 'पाठ'ति परप्रसिद्ध्या पार्थिवं पृथ्वीविकारम्, ऊर्ध्व दिशं प्रक्रामति- प्रकर्षेण याति भवान् ॥ १३ ॥ १०७ ॥ तद्भवसिद्धिकान् प्रत्युक्तम्, For Private & Personal Use Only. Jain Education Intional lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy