Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रक्रमात्तमेव जन्तुं मोहमहार्णवे, कीदृशस्यास्यैतानि जायन्ते ? इत्याह-एवं विकारखैषिणः, दु:खविनोदनार्थं सुखैषितायां हि दुःखापहाराय विषयसेवनादिसंभव इति भावः कदाचिदुदासीन एवाय स्यादित्याह - तत्प्रत्ययं - उक्तरूपप्रयोजननिमित्तमुद्यच्छत्येव. कोऽर्थः ? तत्प्रवृत्तात्सहत एव, रागी उप० द्वेषी च सन् रागद्वेषवतः ॥ १०५ ॥ १२६० ।। सर्वानर्थपरम्परामाह
विर० ॥ १२६१ ॥ विरज्यमानस्य द्विषतश्च पुनरिन्द्रियार्थाः - शब्दादिकास्तावत् प्रकाराः बहुभेदाः न तस्य- मनुजस्य निवर्त्तयन्ति, कोर्थः ? स्वरूपेण हि रूपादयो न मनोज्ञताममनोझतां वा कर्त्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्राध्यवसायः स्यात् ।। १०६ ।। १२६१ ।। उपसंहरन्नाह - एवं० ।। १२६२ ॥ एवमुक्तप्रकारेण स्वस्य - आत्मनः सङ्कल्पाः प्र० रागद्वेषमोहरूपाध्यवसायास्तेषां विकल्पनाः - सर्वदोषमूलत्वादिपरिभावनाः तास्तूपम्थितस्य संजायते आर्यत्वात् समता, तथाऽर्थान् जीवादीन् सङ्कल्पयतश्चशुभध्यानविषयतयाऽध्यवस्यतः, ततः समतायाः 'से' तस्य ॥ १०७ ॥ २६२ ॥ स कीदृशः सन् किं विधत्ते ? इत्याह- स० ।। १२६३ ॥ स प्रहीणतृष्णो वीतरागः स्यात् ।। १०८ ।। १२६३ ॥ तत्क्षयाच्च कं गुणमवाप्नोतीत्याह - सव्व० ॥ १६४ ॥ ध्यानंशुक्लं तेन समाधिः- परमस्वास्थ्यं तेन युक्तः, आयुष उपल० नामगोत्रवेद्यानां च क्षयस्तस्मिन् ।। १०९ ।। १२६४ || मोक्षगतस्वरूपमाह—सो० ।। १२६५ ।। स मोक्षप्राप्तो जन्तुः तस्मात् - जातिजरामरणरूपत्वेन प्रतिपादितात् यद् दुःखं बाधते सततं जन्तुं एनप्रत्यक्षं दीर्घाणि यानि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः ॥ ११० १२६५ ।।
अण॰ ॥ १२६६ ॥ प्रमोक्षमार्गः - प्रमोक्षोपायः, यं - दुःखप्रमोक्षमार्ग समुपेत्य - सम्यक्प्रतिपद्य क्रमेण-उत्तरोत्तरगुणप्रत्तिरूपेण ॥ १११ ॥ १२६६ ॥ अध्ययनम् ३२ ॥
Jain Education Intonal
For Private & Personal Use Only
asinelibrary.org
Loading... Page Navigation 1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480