Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 453
________________ उपाध्यायेभ्यः । ४ । नमो लोए सव्वसाहूणं । ५ । नमो लोके सर्वसाधुभ्यः । ५ । एसो पंच नमुकारो। एषः पञ्चानां नमस्कारः सव्वपावपणासणी - सर्वपापप्रणाशनम् । मंगलाणं च सव्वेर्सि - मङ्गलानां च सर्वेर्षा, पढमं हवइ मंगलं - प्रथमं भवति मङ्गलम् ॥ १ ॥ क्षितिप्रतिष्ठितपुरे धनश्रेष्ठी परमेष्ठिस्मरणासक्तः निजचतुः पुत्रस्त्रीभिः योगिमुक्तकाल भैरवेणाप्यनभिभूतः नमस्कारप्रमावात् प्रसत्तौ वरं त्वं मृत्वा मां मारयेति वचसा जितः, निजभित्र सुवर्णकार दत्ताशुद्धमुद्रा वृद्धत्वं निर्वाह्य स्वर्गे ( जगाम ) | अथ मंगलस्वरूपं विनयधर्ममाह - राजकुले मुनिकुले च विनयः, मुनिविनयमाह कञ्चनकामिन्यादीनां बाह्यसंयोगः कषायादीनामभ्यन्तरः ताभ्यां आ - समन्ताद्भावेन विमुक्तस्य, न विद्यते अगारं गृहं यस्य अनगारस्य, भिक्षो:- भिक्षोपजीविनः साधोः धममूलत्वाद् विनयं साध्वाचारं प्रादुःकरिष्यामि, द्वितीया तृतीया भो साधव आनुपूर्व्या-अनुक्रमेण शृणुत मे मम 'कथयत' इति गम्यं श्रोतुरभिमुखीकरणम् ॥ १ ॥ विनययोग्यस्वरूपमाह – आज्ञा - आगमरूपा, निर्देशो - गुरुवचः 'इदमित्थमेव 'ति निश्यकरः, गुरूणां उपपातो- गुरुवचोविषयादेशावस्थानकारकः, समीपस्थायीत्यर्थः, न त्वादेशभीत्या दुरस्थायीत्यर्थः इङ्गितं निपुणधीगम्यं इषदङ्गकम्पाद्याकारः- स्थूलधीगम्यः कार्य दिगवलोकनादि तयोः संप्रज्ञः - ज्ञाता स विनीतः - विनययोग्य इत्युच्यते || २ || अथ तत्प्रतिस्पर्धित्वादविनीतमाह - नञ्योगेन आज्ञाऽनिर्देशकरः - अनिश्चयकरः, गुरूणामनुपपातकारकः गुरुवचोदरस्थायीत्यर्थः, प्रत्यनीकः - प्रतिकूलवर्ती, अतस्वज्ञः, अविनीतः - दुर्विनीत इत्युच्यते । प्रत्यनीकत्वे दृष्टान्तमाह | एकस्याचार्यस्य दुर्विनीतः शिष्यः तेन च सिद्धाचलयात्रायामवतरतां गुरूणां वधाय शिला मुक्ता, पदयोर्मध्ये निर्गता, गुरुणोक्तं स्रीतो विसीति, तन्मिथ्याक्तुं रहो नदीकूले तपस्यायां स्थितः, तपोलक्ष्म्या कूलमन्यतो वूढम् तेन कुलवाल इति Jain Education Intional For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480