Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ तरुणं-अपक्वं तच्च तदानकं चाम्रफलं तद्रसः तुबर-सकषायं चार्थादपकवे तच्च तत्कपित्थं कपित्थफलं तस्य, वा-विकल्पे अपि-पूरणे यादृशको रस इति कापोताया अतिश कपाय इत्यर्थः ॥ १२ ।। १३०३ ॥ जह• ॥ १३०४ ॥ परिणत-परिपक्वं यदाम्रकं तद्रसः, तेजस्या आम्लः किश्चिन्मधुरश्च ।। १३ ॥ १३०४ ॥ वरवारुगी-प्रधानसुरा तस्य वा रसो यादृशक इति योगः. विविधानां वा आसवानां-पुष्पप्रसवमद्यानां वा रस इति, मधुमयवि० मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो याहशकोऽतो रसात् पद्मायाः प्रक्रमाद्रसः परकेण-अनन्तगुणत्वात्तदतिक्रमेण वर्तत इति शेषः, अयं च किञ्चिदम्लकषायो माधुर्यवांश्च ॥ १४ ॥ १३०५॥ खज्जू० ॥ १३०६॥ शर्करारसो यादृश इति शेषः ॥१५॥ १३०६ ।। गन्धमाह-जह ॥१३०७ ।। सूत्रत्वात्कलोपः, गोमृतकस्य नीलाकापोतानां गन्ध इति प्रक्रमः, लेश्यानामप्रशस्तां विशेषादनुक्तोऽपि गन्धस्य विशेषो ज्ञेयः ।। १६॥१३०७ ॥ गन्धाश्च-कोष्टपुटपाकनिष्पन्ना वासाश्च इतरे गन्धावासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां पिष्यमाणानां-संचूर्ण्यमानानां | यथा गन्ध इति प्रक्रमः ॥ १७ ॥ १३०८ ॥ स्पर्शमाह-जह ॥ १३०९ ॥ क्रकचस्य शाको-वृक्षवि० तत्पत्राणां स्पर्श इति प्र०, यथाक्रमं लेश्यानामप्रशस्यानां प्रक्रमात्स्पर्शः ॥ १८ ॥१३०९ ।। जह० ॥ १३१०॥ यथाक्रमं प्रशस्तलेश्यानां स्पर्शः ॥१९॥१३१०॥ परिणाममाह तिविहो ॥१३११॥ परिणामः-तद्रूपगमनात्मकः, त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः २ त्रिगुणने २७विधत्वं८१ विधत्वं२४३विधत्वं च भाव Jain Education C ational For Private & Personal use only W ainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480