Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 369
________________ ३४८ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ स्वयंवरामेनां, यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं संभालयिष्यामः । ततो वत्से! धीरा भव, मुञ्च विषादं, गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना । रत्नवत्यापि विज्ञापितो देवः यथा तात! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः सापत्न्यं नारीणां महदेव स्नेहत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद भार्यया भाव्यमिति । देवेनाभिहितं-वत्से! यत्ते रोचते तदेव समाचर, न खलु वत्सा स्वयमेवानुचितमाचरिष्यति । ततो महाप्रसाद इति वदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थं विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति । ततस्ततवचनामाकर्ण्य कनकचूडराजो हर्षविषादपूरितहदयः कन्यावासकदानार्थं व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधानमहत्तमान् प्रत्याह-पश्यत! अहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहित्रोरागमनं कुमारविरहानलसर्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतुल्यं प्रतिभासते, तद् गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः । निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कारणद्वयमवगम्य प्रहेष्यत्येव कुमारं पद्मराजः । अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो रत्नवत्याः । ततोऽस्माभिरभिहितं-यदाज्ञापयति देवः, ततश्चेहामुना प्रयोजनेन समागता वयमिति । तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युष्पद्विरहकातरहृदयतया नेदमस्माभिरभिधातुं शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत-मा कुरुताधुना कालविलम्बं गच्छतातित्वरया कुशावर्ते, जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति । ततः शोभनमाज्ञापितं तातेन, भविष्यत्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं-यदाज्ञापयति तातः । ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं, नियुक्ता महत्तमाः, कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति । प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिव्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं, लङ्घितः कियानपि मार्गः । અને આ બાજુ કતકપુરમાં પ્રભાવતીનો સહોદર પ્રભાકર નામનો રાજા છે, અને તેની બંધુસુંદરી નામની ભાર્યા છે, તેનો વિભાકર નામનો પુત્ર છે, અજાત જ=નહીં જન્મેલા જ, વિભાકર અને વિમલાનના હોતે છતે તે બેનો-પ્રભાવતી અને પ્રભાકર રાજાનો, પૂર્વમાં પરસ્પર જલ્પ થયો. શું થયો ते 'यदुत'थी जताव छ – मापा i=l5२ २० मने प्रमावती की माप odi, જેને કોઈ પુત્રી થાય, તેના વડે ઈતર સંબંધી પુત્રને તે આપવી પુત્રી આપવી, આથી તે વિમલાવતા વિભાકરની પૂર્વપ્રતિપન્ન છે=પૂર્વથી જ સગપણથી જોડાયેલી છે. અત્યદા તેણી વડે ગુણસંભારના

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520