Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 424
________________ ४03 ઉપમિતિભવપ્રપંચા કથા ભાગ-૩] તૃતીય પ્રસ્તાવ કનકમંજરીનો યોગ થાય છે ત્યારે જાણે સ્વર્ગ પ્રાપ્ત થયું ન હોય તેવો આનંદ અનુભવે છે, પરંતુ પૂર્વમાં થયેલા સર્વક્લેશનું બીજ અંદરમાં વર્તતા ઉત્કટરાગનું ફળ છે. તે કંઈ દેખાતું નથી. તે સર્વ નંદિવર્ધનમાં વર્તતા અવિવેકનું કૃત્ય છે. વળી કનકમંજરીથી છૂટા પડ્યા પછી તેના સ્વરૂપના વિચારો કરી કરીને નંદિવર્ધન વાસ્તવિક રીતે કામને વશ થઈને પીડાનો જ અનુભવ કરે છે છતાં મહામોહના વશથી કનકમંજરીનું સ્મરણ તેને અમૃત જેવું ભાસે છે તે સર્વ મોહનો વિલાસ છે. प्रविष्टोऽहमपहसितसुरभवने कनकमञ्जरीसनाथे वासभवने, अवगाहितः सुरतामृतसागरः, एवं च प्रवर्धमानाऽनुरागयोरावयोर्गतानि कतिचिद्दिनानि । वैश्वानरहिंसाप्रभावितकुमारचेष्टा इतश्च विभाकरस्य कृतं व्रणकर्म, प्रगुणीभूतः शरीरेण, जातो मया सहाऽस्य स्नेहभावः, समुत्पन्नो विश्रम्भः । अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचूडराजेन, येऽपि तेऽम्बरीषनामानश्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपन्नभृत्यभावा मया सह पूर्वमागताः तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने । ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवतीकनकमञ्जरीभ्यामानन्दमहोदधिमवगाहमानः स्थितस्तत्रैव कियन्तमपि कालं, अस्यापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं, मम तु महामोहवशेन तदा प्रतिष्ठितं हृदये यदुत-अहो हिंसावैश्वानरयोः प्रभावातिशयः, अनयोर्हि माहात्म्येन मयेयं निरुपमाऽऽनन्दाऽमृतरसकूपिका कनकमञ्जरी लब्धेति यतः कथितं तेतलेः कपिञ्जलया कनकचूडराजादाकर्णितं मणिमञ्जरीवचनं यथा-यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लीलया विनिपातितौ, तस्मादस्मै युक्तेयं दातुं कनकमञ्जरीति तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभावादेव विनिपातितौ, तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति, ततो जातं मे गाढतरं हिंसावैश्वानरस्नेहप्रतिबद्धमन्तःकरणं, ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैर्वटकैः प्रतिदिनमुपयुज्यमानैर्जनितं चण्डत्वं, संपादितमसहनत्वं, विहिता रौद्रता, निर्वर्तितो भासुररौद्रभावः, गताऽङ्गाङगीभावं क्रूरता, जातोऽहं स्वरूपं तिरोधाय साक्षादिव वैश्वानरः, ततो नापेक्षे वटकोपयोगं, किं तर्हि ? सततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं, ताडयामि निष्कारणमेव परिजनं । हिंसया तु पुनः पुनराश्लिष्यमाणस्य मे संजातमाखेटकव्यसनं, ततः प्रतिदिनं निपातयामि स्माऽहमनेकजन्तुसंघातं, दृष्टं तन्मदीयचेष्टितं कनकशेखरेण । चिन्तितमनेनअहो किमिदमीदृशमस्याऽसमञ्जसं चरितम्? વૈશ્વાનર અને હિંસાથી પ્રભાવિત થયેલ નંદિવર્ધનકુમારની ચેષ્ટાઓ હું=નંદિવર્ધન, દેવલોકના ભવનને પણ ચઢે એવા સુંદર ભવનમાં કનકમંજરી સાથે વાસભવનમાં

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520