Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 513
________________ ૪૯૨ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ નહીં. મારા વડે વિચારાયું – પરાભવની બુદ્ધિથી મને આ=ધરાધર નામનો તરુણ, ગણકારતો નથી. તેથી મારાં=નંદિવર્ધનનાં, હિંસા-વૈશ્વાનર ઉલ્લસિત થયાં. તેના કટીતટથી=ધરાધર નામના રાજપુત્રના કટીતટથી, તલવાર મારા વડે ગ્રહણ કરાઈ. તેથી=મારા વડે તેના કેડ ઉપરથી તલવાર ગ્રહણ કરાઈ તેથી, વિસ્ફુરિત હિંસા-વૈશ્વાનરવાળા તેના વડે પણ મંડલાગ્ર ખેંચાયો. સાથે જ બંને દ્વારા પ્રહારો અપાયા. બંનેનાં શરીરો કપાયાં. એટલામાં મારી અને તેની=ધરાધર નામના રાજપુત્રની, તે એકભવવેદ્ય ગુટિકા જીર્ણ થઈ. તેથી=એકભવવેદ્ય ગુટિકા નાશ થઈ તેથી, ભવિતવ્યતા વડે બંનેને પણ=ધરાધર રાજપુત્રને અને નંદિવર્ધનને પણ, બીજી ગુટિકા અપાઈ=બીજા ભવ યોગ્ય આયુષ્ય બંધાયું. षष्ठनरके गमनं पीडावर्णनं च इतश्चास्ति पापिष्ठनिवासा नाम नगरी । तस्यामुपर्युपरि सप्त पाटका भवन्ति । तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वसन्ति । ततः षष्ठे तमः प्रभाभिधाने पाटके नीतौ द्वावपि गुटिकाप्रभावेण भवितव्यतया, स्थापितौ तादृशकुलपुत्रकरूपतया प्रवृद्धः सोऽधिकतरमावयोर्वैराऽ ISनुबन्धः स्थितौ परस्परघातमनेकयातनाभिर्विदधानो द्वाविंशतिं सागरोपमाणि, अवगाहितोऽनन्तमहादुःखसागरः । ततस्तस्याः पर्यन्ते गुटिकादानद्वारेणैवाऽऽनीतौ पञ्चाक्षनिवासनगरे द्वावपि भवितव्यतया, विहितौ गर्भजसर्परूपौ, प्रादुर्भूतः पूर्वाऽऽवेधेन परस्परं पुनः क्रोधाऽऽबन्धः, युध्यमानयोः संपन्नं गुटिकाजर, पुनः प्रापितो तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवासायां नगर्यां धूमप्रभाभिधाने पञ्चमे पाट भवितव्यतया । तत्रापि परस्परं निर्दलयतोर्गतानि सप्तदश सागरोपमाणि, अनुभूतान्यतितीव्रदुःखानि । ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपौ तत्राऽपि तदवस्थितो वैराऽनुबन्धः । ततश्चाऽन्योऽन्यं प्रहरतोरपनीय तद्रूपं विहितं तस्यामेव पुर्यां पङ्कप्रभाख्ये चतुर्थपाटके पापिष्ठरूपं भवितव्यतया, तद्गतयोः पुनरप्यावयोरनुवर्तते स्माऽसौ रोषोत्कर्षः, लङ्घितानि तत्रापीतरेतरं निघ्नतोर्दश सागरोपमाणि, सोढानि वाग्गोचराऽतीतानि दुःखानि । ततः पुनरानीय जनितौ द्वावपि श्येनरूपी, संलग्नं समुल्लसितवैश्वानरयोरायोधनं, ततश्च्यावयित्वा तद्रूपं पुनर्नीतौ तस्यामेव पुरि वालुकाप्रभानानि तृतीयपाटके गुटिकाप्रयुक्तिवशेनैव भवितव्यतया, तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्राऽनुभावजनितानि परमाधार्मिकाऽसुरोदीरितानि चाऽनन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमाणि, तदन्ते पुनरानीतौ पञ्चाक्षनिवासनगरे दर्शितौ च नकुलरूपौ भवितव्यतया, न त्रुटितस्तत्रापि परस्परं मत्सरप्रकर्षः, प्रहरतोश्चान्योऽन्यं विदीर्णे द्वयोरपि शरीरे, जीर्णे प्राचीनगुटिके, वितीर्णे पुनरपरे, नीतौ पुनस्तस्यामेव नगर्यां शर्कराप्रभाभिधाने द्वितीयपाटके । ततो विहितबीभत्सरूपयोरन्योऽन्यं पिंषतोः परमाधार्मिककदर्थनां क्षेत्रजनितसन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि सागरोपमाणि, एवं च पापिष्ठनिवासनगर्याः पञ्चाक्षनिवासनगरे, ततोऽपि पुनस्तस्य गत्यागमनं कुर्वता तेन धराधरेण

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520