________________
३४८
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ स्वयंवरामेनां, यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं संभालयिष्यामः । ततो वत्से! धीरा भव, मुञ्च विषादं, गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना । रत्नवत्यापि विज्ञापितो देवः यथा तात! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः सापत्न्यं नारीणां महदेव स्नेहत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद भार्यया भाव्यमिति । देवेनाभिहितं-वत्से! यत्ते रोचते तदेव समाचर, न खलु वत्सा स्वयमेवानुचितमाचरिष्यति । ततो महाप्रसाद इति वदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थं विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति । ततस्ततवचनामाकर्ण्य कनकचूडराजो हर्षविषादपूरितहदयः कन्यावासकदानार्थं व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधानमहत्तमान् प्रत्याह-पश्यत! अहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहित्रोरागमनं कुमारविरहानलसर्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतुल्यं प्रतिभासते, तद् गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः । निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कारणद्वयमवगम्य प्रहेष्यत्येव कुमारं पद्मराजः । अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो रत्नवत्याः । ततोऽस्माभिरभिहितं-यदाज्ञापयति देवः, ततश्चेहामुना प्रयोजनेन समागता वयमिति । तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युष्पद्विरहकातरहृदयतया नेदमस्माभिरभिधातुं शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत-मा कुरुताधुना कालविलम्बं गच्छतातित्वरया कुशावर्ते, जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति । ततः शोभनमाज्ञापितं तातेन, भविष्यत्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं-यदाज्ञापयति तातः । ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं, नियुक्ता महत्तमाः, कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति । प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिव्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं, लङ्घितः कियानपि मार्गः ।
અને આ બાજુ કતકપુરમાં પ્રભાવતીનો સહોદર પ્રભાકર નામનો રાજા છે, અને તેની બંધુસુંદરી નામની ભાર્યા છે, તેનો વિભાકર નામનો પુત્ર છે, અજાત જ=નહીં જન્મેલા જ, વિભાકર અને વિમલાનના હોતે છતે તે બેનો-પ્રભાવતી અને પ્રભાકર રાજાનો, પૂર્વમાં પરસ્પર જલ્પ થયો. શું થયો ते 'यदुत'थी जताव छ – मापा i=l5२ २० मने प्रमावती की माप odi, જેને કોઈ પુત્રી થાય, તેના વડે ઈતર સંબંધી પુત્રને તે આપવી પુત્રી આપવી, આથી તે વિમલાવતા વિભાકરની પૂર્વપ્રતિપન્ન છે=પૂર્વથી જ સગપણથી જોડાયેલી છે. અત્યદા તેણી વડે ગુણસંભારના