Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 15
________________ ३. ४] स्मरणप्रामाण्यम् । वह्निमानितिवत् । परिस्फुरणसम्भवादिति तस्यैव तनूनपातः । त_नुभवे इत्यादि सूरिवाक्यम् । अनुभवे इति अनुभवकाले। अस्यापीति रमरणस्यापि। तदिति स्वातन्त्र्यम् । ननु तेऽपीत्यादि परवाक्यम् । प्रत्यभुरेवेति प्रतिभासन्ते स्मैव । अन्यथेति अनुभूतौ प्रतिभानाभावे । नियतदेशोऽपीत्यादि सूरिवाक्यम् । नियतदेशोऽपीति कोऽर्थः ? पर्वतादिनियतदेशस्थः । व्याक्तित्राहिणीति प्रत्यक्षप्रमाणे । अन्यथेति प्रत्यक्षेण व्याप्तिग्रहणाभावे । किं न चेतयते इति किं न मनसा विचारयसि ? अथ तत्रेत्यादि परवाक्यम् । तत्रेति व्याप्तिग्राहिणि प्रमाणे । सार्वदिका इति कालनिर्देशः सार्वत्रिका इति क्षेत्रभणनम् । इत्युक्तमिति चेदित्ति पूर्व व्याप्तिप्राहकेणेत्यत्र यावन्तः केचित् पावकारतार्णाः पार्णाश्च तदादयः सर्वेऽपि निरीक्ष्यन्ते । ननूत्तरमपीत्यादि सूरिवाक्यम् । तत्रेति अनुभवे भूयो विशेपेत्यत्र । उक्तमिति पूर्वमेव । ननु न सर्वत्रैवेत्यादि परवाक्यम् । क्वचिदिति पटुप्रज्ञे । यावदनुभूतरूपादिविशेपसपीति यावन्तोऽनुभूता रूपादयो विशेषा यावदनुभूतरूपादिविशेपमित्यव्ययीभावः । तस्येति स्मरणस्य । तत्र का गतिरिति निर्विषयमेव स्मरणम् । असाविति अनुभूयमानता । तस्यापीत्यादि । अन्यथा यदि स्मरणेऽप्यनुभूयमानता चकास्यात् तदा प्राचीनानुभवस्वभावतापत्तिः । प्राचीनानुभवस्वभावतापत्तौ च स्मरणमेव तन्न भवतीति हृदयम् । तत्रेति स्मृतौ । (टि०) तदाहितेति अनुभवारोपितसंस्कारात् । तदुत्पत्तेरिति स्मृतेरुत्पत्तेः । स्वविपयेति पूर्वपरिज्ञातपदार्थसार्थे । अस्या इति स्मृतेः। प्रमाणेति तर्कः । अथ व्याप्तीति व्याप्तिप्रतिपादिना तर्कप्रमागेन निश्चितविवक्षितप्रदेशविषयो वीतिहोत्रो न प्रतीयते । अनुमानेन तु निश्चित एवानुमीयते । अत एव स्वतन्त्रताऽनुमानस्य । अस्यापीति स्मरणस्यापि । तदिति स्वातन्त्र्यम् । प्रत्यक्षुरिति भा दीप्तो प्रतिपूर्वः। अद्यतनी अन् । “अधात्वादि." [का० सू० ति० सू० ४७ ] "अन्स्सिजभ्यस्त०' [ का० सू० ति. १६६ ] इत्यादिना अन्स्थाने उस आलोपोऽसार्वधातुके इति सिद्धम् , प्रतिवभासिरे। अन्यथेति अनुभवे विशेषप्रतिभासनमन्तरेण । व्याप्तिग्राहिणीति तर्कप्रमाणे । अन्यथेति नियतपावकास्मरणे । सार्वदिका इति सर्वदाभवाः, सर्वत्रभवा वा ते । “नदीव्यति" इत्यादिना भवार्थे इकण् । स एवैक इति विवक्षितः पर्वतादिप्रदेशस्थः पावकः । ननूत्तरमपीति अनुभवे भूयासो विशेषाः इत्यादि ॥ तत्रेति पूर्ववाक्ये ॥ ननु [न] सर्वत्रेत्यादि । तस्येति स्मरणस्य । असाविति अनुभूयमानता । तस्यापीति स्मरणस्यापि । अनुभूततैवेति पदार्थस्य पूर्वानुभूतत्वम् । तत्रेति स्मरणे । ६५ न च तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि, संबन्धस्याप्रमाणस्मरणसंदर्शितस्यानुमानानङ्गत्वात् , संशयितलिङ्गवत् । न च 'प्राक्प्रवृत्तसंबन्धग्राहिप्रमाणव्यापारोपस्थापनमात्रचरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजनम्' इति वाच्यम् । अप्रमाणस्य तदुपस्थापनेऽपि सामर्थ्यासंभवात् । ६६ किञ्च, अर्थोपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयांचकृट्वे । तच्च धारावाहिप्रत्यक्षस्येवास्याप्यक्षुणमीक्ष्यत एवेति किमन्यैरसत्प्रलापैरिति ? ॥ ४ ॥ ઉપ અને મરણનું અપ્રામાણ્ય માને તે અનુમાનમાં પણ પ્રામાણ્યઘટી શકશે નહિ, કારણ કે-સંશયયુક્ત હેતુ જેમ અનુમાનનું કારણ નથી તેમ

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 315