Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 13
________________ स्मरणप्रामाण्यम् । (टि.) परापेक्षमिति प्रत्यक्षादिप्रमाणापेक्षम् । स्वविपये इति अग्न्यादी । तस्मादिति अनुमानात् । 'पूर्वविज्ञातेत्यादि पूर्वपरिज्ञातपदार्थसार्थविषयम् ॥ तस्या इति स्मृतेः । तत्र यदित्यादि ।। तत्रेति अर्थे । तस्येति पूर्वज्ञानस्य । तदुपस्थानेति अर्थनिश्चयो. त्पादनमात्रेण । ६४ तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रेऽनुभवसव्यपेक्षत्वात्, तदाहितसंस्कारात् तदुत्पत्तेः । स्वविषयपरिच्छेदे त्वस्याः स्वातन्त्र्यमेव । ननु नात्र स्वातन्त्र्यम्, अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यतत्वात् । एवं तर्हि व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः ? अथ व्याप्तिग्राहकेणानैयत्येन प्रतिपन्नात् तनूनपातो नैयत्यविशेपेणानुमाने परिस्फुरणसंभवात् कुतो न स्वातन्त्र्यमिति चेत् ? तर्हि अनुभवे भूयो विशेषशालिनः, स्मरणे तु कतिपयैरेव विशेषैविशिष्टस्य वस्तुनो भानात् कुतो नास्यापि तत् स्यात् ? ननु तेऽपि विशेषास्तावदनुभूतौ प्रत्यभुरेव, अन्यथा स्मरणमेव तन्न स्यात् इति चेत् । नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभादेव, अन्यथाऽनुमानमेव तन्न स्यात्-इति किं न चेतयसे ! अथ तत्र सर्वे सार्वदिकाः सार्वत्रिकाश्च पावकाः पुस्फुरुः, अनुमाने तु स एवैकश्चकास्तीत्युक्त मिति चेत् । ननुत्तरमपि तत्रोक्तमेव मा विस्मार्षीः । ननु न सर्वत्रैव कतिपयविशेषावसायव्याकुलं स्मरणम् । क्वचिद्यावदनुभूतरूपादिविशेषमपि तस्योत्पत्तेस्ततस्तत्र का गतिरिति चेत् ? नैवम् । नहि रूपादय एव विशेषा वस्तुनः, किन्तु अनुभूयमानताऽपि । न चासौं स्मरणे क्वापि चकास्ति, तस्यापि प्राचीनानुभवस्वभावतापत्तेः । किन्त्वनुभूततैव भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मरणस्यापि प्रामाण्यम् । ૭૪ જૈન–હે યોગે! તમારુ ઉપરોક્ત કથન યુક્તિસિદ્ધ નથી, કારણકેસ્મૃતિ પણ માત્ર પિતાની ઉત્પત્તિમાં જ અનુભવની અપેક્ષા રાખે છે, કારણ કે-તે અનુભવથી પડેલા સંસ્કારથી ઉત્પન્ન થાય છે. પરંતુ પોતાના વિષયના જ્ઞાનમાં તો તે સ્વતંત્ર છે, અર્થાત સ્મૃતિ પણ અનુમાનની જેમ પ્રમાણરૂપ છે. યી–સ્મૃતિ સ્વવિષયમાં સ્વતંત્ર નથી કારણકે તે પૂર્વે અનુભવેલ પદાર્થોને જ જાણવામાં તત્પર છે. જન–જો એમ હોય તે પછી વ્યામિના પ્રતિપાદક પ્રમાણથી એટલે કેતકથી જાણેલ પદાર્થનું ઉપસ્થાપન કરનાર અનુમાનની પણ સ્વતંત્રતા કઈ રીતે સંગત થશે ? १ पूर्वविज्ञानेत्यादि रित्यज्य 'पूर्वविज्ञातविषय' इति पाठः टिप्पणे स्वीकृतः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 315