________________
स्मरणप्रामाण्यम् । (टि.) परापेक्षमिति प्रत्यक्षादिप्रमाणापेक्षम् । स्वविपये इति अग्न्यादी । तस्मादिति अनुमानात् ।
'पूर्वविज्ञातेत्यादि पूर्वपरिज्ञातपदार्थसार्थविषयम् ॥ तस्या इति स्मृतेः ।
तत्र यदित्यादि ।। तत्रेति अर्थे । तस्येति पूर्वज्ञानस्य । तदुपस्थानेति अर्थनिश्चयो. त्पादनमात्रेण ।
६४ तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रेऽनुभवसव्यपेक्षत्वात्, तदाहितसंस्कारात् तदुत्पत्तेः । स्वविषयपरिच्छेदे त्वस्याः स्वातन्त्र्यमेव । ननु नात्र स्वातन्त्र्यम्, अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यतत्वात् । एवं तर्हि व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः ? अथ व्याप्तिग्राहकेणानैयत्येन प्रतिपन्नात् तनूनपातो नैयत्यविशेपेणानुमाने परिस्फुरणसंभवात् कुतो न स्वातन्त्र्यमिति चेत् ? तर्हि अनुभवे भूयो विशेषशालिनः, स्मरणे तु कतिपयैरेव विशेषैविशिष्टस्य वस्तुनो भानात् कुतो नास्यापि तत् स्यात् ? ननु तेऽपि विशेषास्तावदनुभूतौ प्रत्यभुरेव, अन्यथा स्मरणमेव तन्न स्यात् इति चेत् । नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभादेव, अन्यथाऽनुमानमेव तन्न स्यात्-इति किं न चेतयसे ! अथ तत्र सर्वे सार्वदिकाः सार्वत्रिकाश्च पावकाः पुस्फुरुः, अनुमाने तु स एवैकश्चकास्तीत्युक्त मिति चेत् । ननुत्तरमपि तत्रोक्तमेव मा विस्मार्षीः । ननु न सर्वत्रैव कतिपयविशेषावसायव्याकुलं स्मरणम् । क्वचिद्यावदनुभूतरूपादिविशेषमपि तस्योत्पत्तेस्ततस्तत्र का गतिरिति चेत् ? नैवम् । नहि रूपादय एव विशेषा वस्तुनः, किन्तु अनुभूयमानताऽपि । न चासौं स्मरणे क्वापि चकास्ति, तस्यापि प्राचीनानुभवस्वभावतापत्तेः । किन्त्वनुभूततैव भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मरणस्यापि प्रामाण्यम् ।
૭૪ જૈન–હે યોગે! તમારુ ઉપરોક્ત કથન યુક્તિસિદ્ધ નથી, કારણકેસ્મૃતિ પણ માત્ર પિતાની ઉત્પત્તિમાં જ અનુભવની અપેક્ષા રાખે છે, કારણ કે-તે અનુભવથી પડેલા સંસ્કારથી ઉત્પન્ન થાય છે. પરંતુ પોતાના વિષયના જ્ઞાનમાં તો તે સ્વતંત્ર છે, અર્થાત સ્મૃતિ પણ અનુમાનની જેમ પ્રમાણરૂપ છે.
યી–સ્મૃતિ સ્વવિષયમાં સ્વતંત્ર નથી કારણકે તે પૂર્વે અનુભવેલ પદાર્થોને જ જાણવામાં તત્પર છે.
જન–જો એમ હોય તે પછી વ્યામિના પ્રતિપાદક પ્રમાણથી એટલે કેતકથી જાણેલ પદાર્થનું ઉપસ્થાપન કરનાર અનુમાનની પણ સ્વતંત્રતા કઈ રીતે સંગત થશે ?
१ पूर्वविज्ञानेत्यादि रित्यज्य 'पूर्वविज्ञातविषय' इति पाठः टिप्पणे स्वीकृतः ।