________________
३. ४]
स्मरणप्रामाण्यम् ।
वह्निमानितिवत् । परिस्फुरणसम्भवादिति तस्यैव तनूनपातः । त_नुभवे इत्यादि सूरिवाक्यम् । अनुभवे इति अनुभवकाले। अस्यापीति रमरणस्यापि। तदिति स्वातन्त्र्यम् । ननु तेऽपीत्यादि परवाक्यम् । प्रत्यभुरेवेति प्रतिभासन्ते स्मैव । अन्यथेति अनुभूतौ प्रतिभानाभावे । नियतदेशोऽपीत्यादि सूरिवाक्यम् । नियतदेशोऽपीति कोऽर्थः ? पर्वतादिनियतदेशस्थः । व्याक्तित्राहिणीति प्रत्यक्षप्रमाणे । अन्यथेति प्रत्यक्षेण व्याप्तिग्रहणाभावे । किं न चेतयते इति किं न मनसा विचारयसि ? अथ तत्रेत्यादि परवाक्यम् । तत्रेति व्याप्तिग्राहिणि प्रमाणे । सार्वदिका इति कालनिर्देशः सार्वत्रिका इति क्षेत्रभणनम् । इत्युक्तमिति चेदित्ति पूर्व व्याप्तिप्राहकेणेत्यत्र यावन्तः केचित् पावकारतार्णाः पार्णाश्च तदादयः सर्वेऽपि निरीक्ष्यन्ते । ननूत्तरमपीत्यादि सूरिवाक्यम् । तत्रेति अनुभवे भूयो विशेपेत्यत्र । उक्तमिति पूर्वमेव । ननु न सर्वत्रैवेत्यादि परवाक्यम् । क्वचिदिति पटुप्रज्ञे । यावदनुभूतरूपादिविशेपसपीति यावन्तोऽनुभूता रूपादयो विशेषा यावदनुभूतरूपादिविशेपमित्यव्ययीभावः । तस्येति स्मरणस्य । तत्र का गतिरिति निर्विषयमेव स्मरणम् । असाविति अनुभूयमानता । तस्यापीत्यादि । अन्यथा यदि स्मरणेऽप्यनुभूयमानता चकास्यात् तदा प्राचीनानुभवस्वभावतापत्तिः । प्राचीनानुभवस्वभावतापत्तौ च स्मरणमेव तन्न भवतीति हृदयम् । तत्रेति स्मृतौ ।
(टि०) तदाहितेति अनुभवारोपितसंस्कारात् । तदुत्पत्तेरिति स्मृतेरुत्पत्तेः । स्वविपयेति पूर्वपरिज्ञातपदार्थसार्थे । अस्या इति स्मृतेः। प्रमाणेति तर्कः । अथ व्याप्तीति व्याप्तिप्रतिपादिना तर्कप्रमागेन निश्चितविवक्षितप्रदेशविषयो वीतिहोत्रो न प्रतीयते । अनुमानेन तु निश्चित एवानुमीयते । अत एव स्वतन्त्रताऽनुमानस्य । अस्यापीति स्मरणस्यापि । तदिति स्वातन्त्र्यम् । प्रत्यक्षुरिति भा दीप्तो प्रतिपूर्वः। अद्यतनी अन् । “अधात्वादि." [का० सू० ति० सू० ४७ ] "अन्स्सिजभ्यस्त०' [ का० सू० ति. १६६ ] इत्यादिना अन्स्थाने उस आलोपोऽसार्वधातुके इति सिद्धम् , प्रतिवभासिरे। अन्यथेति अनुभवे विशेषप्रतिभासनमन्तरेण । व्याप्तिग्राहिणीति तर्कप्रमाणे । अन्यथेति नियतपावकास्मरणे । सार्वदिका इति सर्वदाभवाः, सर्वत्रभवा वा ते । “नदीव्यति" इत्यादिना भवार्थे इकण् । स एवैक इति विवक्षितः पर्वतादिप्रदेशस्थः पावकः । ननूत्तरमपीति अनुभवे भूयासो विशेषाः इत्यादि ॥ तत्रेति पूर्ववाक्ये ॥ ननु [न] सर्वत्रेत्यादि । तस्येति स्मरणस्य । असाविति अनुभूयमानता । तस्यापीति स्मरणस्यापि । अनुभूततैवेति पदार्थस्य पूर्वानुभूतत्वम् । तत्रेति स्मरणे ।
६५ न च तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि, संबन्धस्याप्रमाणस्मरणसंदर्शितस्यानुमानानङ्गत्वात् , संशयितलिङ्गवत् । न च 'प्राक्प्रवृत्तसंबन्धग्राहिप्रमाणव्यापारोपस्थापनमात्रचरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजनम्' इति वाच्यम् । अप्रमाणस्य तदुपस्थापनेऽपि सामर्थ्यासंभवात् ।
६६ किञ्च, अर्थोपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयांचकृट्वे । तच्च धारावाहिप्रत्यक्षस्येवास्याप्यक्षुणमीक्ष्यत एवेति किमन्यैरसत्प्रलापैरिति ? ॥ ४ ॥
ઉપ અને મરણનું અપ્રામાણ્ય માને તે અનુમાનમાં પણ પ્રામાણ્યઘટી શકશે નહિ, કારણ કે-સંશયયુક્ત હેતુ જેમ અનુમાનનું કારણ નથી તેમ