Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र | (सारस्वत विभ्रारे
है स्य-राज्ञः इभ्यः-ईश्वरः पार्थिवेभ्यः, अथवा इभी-हस्तिनी, पार्थिवस्य इभ्यो-हस्तिन्य इति प्रथमाबहुवचनं पार्थिवेभ्यः, एषु गतौ, त्याद्यन्ता॥२९॥ एषतीति एष क्विए लोपः, तृतीयकवचने एषा अथवा नसे नासिकायै हितं नस्य, हितार्थे यप्रत्ययः, नपूर्वः, न विद्यते नस्यंमः स्यादिः अस्येत्यनस्य, श्वेवानस्यं श्वानस्य तस्य सम्बोधनं हे-श्वानस्य, यद्वा 'अण् प्राणने अन् अननं आनः, 'भावे घनि' (घञ् भावे८-३-४)इ.
श्लो.३-४ तिघञ् प्रत्ययः त्रित्वाद् वृद्धौ आन इति सिद्धं, शुनः आनः-प्राणः श्वानः तस्य श्वानस्य, षष्टीतत्पुरुषः, यद्वा 'पोऽन्तकर्मणिं' पो 'आदेःष्णः स्नः' (७-४-७७) अग्रे हि, 'दिवार्य' (७-१-१५) इति यप्रत्ययः 'वो' रिति (७-४-७२) ओकारलोपः, 'अत' (७-३-१३) इति हेर्लुक् स्य, श्वान आमन्त्रणे, सिलोपः, हे श्वान स्य, श्वानशब्दस्याभिधानकोशोक्तस्य विषयतैव नास्ति,'शुनः श्वानो गृहमृग' इति हैमः ॥२॥
भवेतामिति शब्दोऽयं, बहुत्वे वर्त्तते कथम्? । यागः षष्ठीसमासः स्यात्, पञ्चमी पर्वतात् न तु ॥३॥ 'भवेता' मिति, प्रश्नार्थस्य सुगमत्वान्निर्वचनमेव निर्वच्मः, 'इण् गतौ' इ भवः पूर्वः, भव-संसारं यान्ति-गच्छन्ति इति किप | 'हस्वस्य पिति कृति तुगि' (८-४-२२) ति तुक, क्वित्त्वादन्ते क्विप् लोपः, भवेत्, षष्ठीबहुवचने आमि भवेतामिति सिद्धं । इ:-|॥२९॥ कामस्तस्य आगः, यद्वा ई-लक्ष्मीस्तस्या आगः-अपराधः यद्वा या-लक्ष्मीस्तस्या अगः-पर्वतः पादपो वा, यागः, त्रिष्वप्यर्थेषु षष्ठीतत्पुरुषः, यद्वा 'यस्तु वाते यमेऽपि चे'त्येकाक्षरनिघण्टुवचनात् यः-यमस्तस्यागः-अपराधः-यद्वा 'यमो यः कथितः शिष्टर्यो दातरि च
१ वा एषणं एष्. २ विनाशे.
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120