Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra श्रीराजशेखरकृते संघ महोत्सवे ॥ ५९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्या भवन्ति उत्सवाः, अतस्तस्या एवागताया गृहपूजां वितन्वन्ति महान्तः, पूजया तुष्टा देवी तस्य गेहं न मुञ्चति, अत उच्यतेऔदार्यं कनकासनं सुवसनान्यक्रौर्यलज्जर्जुताः, श्रद्धाचन्दनलेपनं सुविनयन्यायौ मणीकुण्डले । मुक्तावल्लरिचिती वितरणं कोटीरमेवं श्रियं देवीं गेहगतां कृती महति यस्तस्य स्थिरा सा रसात् ॥ १६ ॥ येशूरा ये च विद्वांसो, ये च सेवाविचक्षणाः । सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्कराः ॥ १ ॥ धनं कारणं, येनाविद्यमाना अपि गुणाः प्रकटीभवन्ति, विद्यमाना अपि यान्ति यस्याभावात्, “धनमर्जय काकुत्स्थः, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्द्वनस्य मृतस्य च ॥ १ ॥ लक्ष्मीः पूर्वपुण्यरज्ज्वाकृष्टा मम गेहं प्राप्ता, परं-या यस्य प्रकृतिः स्वभावजनिता कष्टेन सा त्यज्यते, इतीयं कमला क्षणं कुमुदे क्षणं चन्द्रे क्षणं सूर्ये मान्धात्रादीनां गृहे चिरं नो वासः, अतोऽस्या अनुवृत्तिरेव क्रियते इति संचित्योवाच लक्ष्मीमें सुकृतेन यद्यपि गृहे न्यस्ता तथाऽप्येतया, नानास्थाननिवासशीलमनवं दुर्म्माचमित्यग्ग्रधीः । सत्रार्हद्गृहविम्बपुस्तकवसत्युद्यापनाद्यैरिदं, तस्याः पुष्यति वश्यबीजमपरं भावानुवृत्तेर्न हि ॥ १७ ॥ महाकुले जलधावुत्पन्नः सर्वलोकप्रियः शीतलकरः कलावान् तेन चन्द्रमसा सार्द्धं उपमां दातुं विचारयामः परं तेनापि सह न समीचीना राजते, दातरि विशेषदर्शनात् यतः - सङ्ग्राम्मोधिविवर्द्धनः शुभकरः सद्वंशपूर्वाचलोद्भिन्नः सज्जनकैरवप्रमदनः सौम्यस्तमः स्तोमहा । सम्प्रीतार्थिचकोरकः सुतसुहृन्नक्षत्रतारागृहो, दातेन्दुर्न पुनः क्षयी न च जडो नान्तः कुरङ्गोऽद्भुतम् ॥ १८ ॥ For Private and Personal Use Only - दानात मनोरथ सिटि ।। ५९ ।।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120