Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra कातन्त्र (सारस्वत) विभ्रमे ॥ ४३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिवादि अम्, अप्, अवनम्, एवमानिष्प्रत्यये वनानि सिद्ध्यति, यद्वा 'अन प्राणने' वनपूर्वः वनमनिति स्मेति' णिनिरतीते' (८-२-११) इति इन् वनानि १-१, 'नपुंसकात् स्यमोलुगि' ति लुक । 'अस भुवि' इति धातोर्वसि प्रत्यये 'नमसोऽस्ये' (७-३-२६)त्यलोपे स्वः इति सिद्धम् । खिलमिवाचरं 'कर्तुर्यङि' ति क्विप् लोपः, अनद्यतनेऽम्, अप् लुक् अखिलं सिद्धं । ' या प्रापणे' इत्यस्य आनिपि यानिरूपं । 'शुभ शुभ शोभार्थे' शुभ तुदादिः, 'रण शब्दे' रण भुवादिः, आनिपि परे शुभानि रणानि सिद्धम् ।। १५ । उपलक्षणतो लोके, इति रूपस्य विभ्रमे । कुण्डे पिण्डे तथा गुण्डे, मुण्डे चण्डे च खण्डके ॥ १ ॥ 'कुडि दाहे' कुड्, 'पिडि सङ्घाते' पिड् 'मुडि मज्जने उद्यमे वा' मुड्, चडि कोपे चड् 'खडि मन्थने' खड्, सर्वत्र वर्त्तमाने ए प्रत्ययः, 'इदित' (७-४-९६) इति नुम्, कुण्डे पिण्डे इत्यादिरूपाणि स्युः, एतानि सप्तम्येकवचनप्रतिरूपकाणि प्रथमाद्वितीयाद्विवचनसदृशानि वा । सास्नःया अकृशोऽताता, असर्मा अटोऽनृणाम् । रेफ वेव रवेऽपेपेरदोधूर्तानिलः कुतः ॥ १६ ॥ 'सास्नाया' इति, इहापि प्रायः स्याद्यन्तप्रतिरूपकाः, सास्नाशब्दस्य षष्ठयेकवचनान्तस्यादौ रूपं, क्रिया तु 'ष्णा शौचे' ‘आदेः ष्णः स्नः’ ( ७-४-७७ ) स्ना, अत्यर्थं स्नाति, 'अतिशये हसादे' ( ७-३-५७ ) रिति यङ्, यङो लोपे द्विर्वचनं 'पूर्वस्य हसादिः शेष' इति ( ७-४-२४ ) नस्य लोपे आशीर्यास्प्रत्ययः, सास्नायाः सिद्धं । 'कृश तनूकरणे' कृश्, अनद्यतने स्, दिवादाबद् 'लित्पुषादे' (७-२-१५)रित्यप्रत्ययः, स्वर० अकृशः इति सिद्धम् । नास्ति तातो येषां ते ताताः १-३ स्याद्यन्ते, क्रिया तु 'तर्द हिंसायां ' तर्द, अत्यर्थं तर्दति यङ् यङ् लुक्, द्विश्व, अनद्यतने स्, अद्, सौ पदान्ते रेफप्रकृत्योरपि दधो रत्वं, 'आत' इति (७-४-३५) पूर्वस्य For Private and Personal Use Only स्याद्यन्ताभानि त्या धत्तपन ॥ ४३ ॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120