Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra कातन्त्र (सारस्वत) विभ्रमे ।। ३५ ।। -- www.kobatirth.org सुखानि शीलानि नखान्यसांलाः, खलानि पापानि बलान्यचर्चाः । पुराणि वर्षाणि मठान्यमीनाः, धनानि सर्वाणि बिलान्यपां च ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir 'सुखानी 'ति, कथमेकत्त्वमित्यनुवर्त्तते, सुष्ठु - शोभनाः खानयो यत्र कुले तत् सुखानि १-१, यथा खनिशब्दस्तथा खानि - | शब्दोऽपि 'खनिः खानी 'ति हैमलिंगानुशासनोक्तः, यद्वा सुखमिवाचरति 'कर्तुर्यङ्' (७-४-५) अत्रार्थे क्विरपि वाच्य इति क्विप् प्रत्ययः, 'वे' रिति ( ८-४-२७) विलोपे आनिप्प्रत्यये सुखानि, अथवा सु-शोभनं खं-छिद्रादि तदिवाचरतीति, अथवा 'अन प्राणने' अन् सुखपूर्वः, सुखेन अनितीत्येवंशीलं 'णिनिरतीते' इति णिन्प्रत्ययः, णित्त्वाद् वृद्धौ प्रथमैकवचने 'नपुंसकात् स्यमोलुगि 'ति (३-३-११)सेलुकि सुखानि, यद्वा सुखमानयति यत्कुलं तत् सुखानि, फलानीतिवत्साध्यं, पंचार्थाः 'शील समाधौ ' ' उख नख णख वखेति दण्डकधातुः, प्राग्वत्साध्यानि शीलानि नखानि । असास्ना इति न विद्यते सास्ना येषां तेऽसास्नाः 'सास्ना तु गलकम्बल' इत्यमरः इति भूम्नि प्रसिद्धं, एकत्वं तु 'ष्णा शौचे' ष्णा, 'आदेः ष्णः स्नः' 'निमित्ताभावे नैमित्तिकस्याभावः' इति स्ना, अत्यर्थ स्नाति 'अतिशये हसादेर्यङ् 'द्विश्चेति (७-३-५७) यङ्-प्रत्ययः, 'वाऽन्यत्रे' ति(८-२-२७) यङ्लुक्, द्वित्वं स्ना स्ना, 'पूर्वस्य हसादिः शेष' इति (७-४-२४) नकार लोपः, 'सधातु' (७-४-१०) रिति दिवादिगणगतसिप्प्रत्ययः स्, 'स्रोर्विसर्गः' असास्नाः । 'खल संचये'खल्, आनिप्प्रत्यये अपि खलानि सिद्धं । 'पा पाने' पा, अत्यर्थ पिबति, अतिशये यङ्, 'वान्यत्रे' ति ( ८-२-२७) यङ् लुक् 'ह्वादिवच्च द्रष्टव्यमिति वचनादप्प्रत्ययः, 'ह्रादेर्द्वि ' (७-१-१४) त्यपो लुक् द्विश्व, तुबादिपरस्मैपदोत्तमपुरुषैकवचने आनिपि सिद्धं पापानि । 'बल प्राणधारणे' बल्- आनिपि For Private and Personal Use Only स्वाद्यन्ताभानि त्याद्य ॥ ३५ ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120