Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 464
________________ 447 ११. बप्पभट्टिसूरिचरितम् । तथा हिरामो नाम बभूव हुं तदवला सीतेति हुं तां पितु वाचा पंचवटीवने विचरतस्तस्याहरद् रावणः। निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः *पूर्वस्मर्तुरवन्तु कोपकुटिलभ्रूभंगुरा दृष्टयः ॥ ५७२ ॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ ५७३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा _धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिंग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५७४ ॥ सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचते धत्से यत्त्वपरां विलज शिरसा तच्चापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरेः कस्माद् विषं भक्षितम् मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ ५७५ ॥ यदमोघमपामन्तरुप्तं बीजमज त्वया। अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे। ॥५७६ ॥ कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती त्वयैव । अबाह्यसंवित्सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चित्तम् ॥ ५७७॥ स कर्णकटुकं तच्च श्रुत्वा शीप व्यधूनयत् । आकूण्य नासिकां वाचं प्राहाथो दुर्मनायितः ॥ ५७८ ॥ 20 अमीषां रसकाव्यानां प्रशंसायाश्च किं सखे!। अ(इ)यं वेला कथं नाम सौहार्द तव चेदृशम् ।। ५७९ ।। इदं च श्रीबप्पभहिसदृशं भवतीह किम् । पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ५८० ॥ ततः प्राह गुरुः साधु साधु ते चेतना स्तुमः । प्रष्टव्यमस्ति किंचित्तु भवत्पार्श्वे सुहृत्तम ! ॥ ५८१ ॥ देवानां यन्मयाऽऽख्यायि स्वरूपं भवदग्रतः । तत्तथ्यं वितथं वास्ते 'तथ्यं चेदुर्मनाः कथम् ॥ ५८२ ।। वितथं च कथं तत्स्यात् प्रत्यक्ष संदीहीत' कः । अत्र कार्ये प्रवृत्तिस्ते राज्यादीच्छावशादिह ।। ५८३ ॥ 25 परमार्थोपलम्भे वा ?, विकल्पः प्रथमो यदि । संमतं नस्तदाऽऽराद्धा देवा भूपतयोऽपि च ।। ५८४ ॥ इष्टं प्रणयिनां दद्यः सामर्थ्यात् संशयोऽपि न । परमार्थे तु चेदिच्छा तत् त्वं तत्त्वं विचारय ।। ५८५ ॥ संसारोपाधिमग्नैश्चेत् सुरैर्मुक्तिः प्रदीयते । तन्नात्र मत्सरोऽस्माकं स्वयं निखिलवेद्यसि ॥ ५८६ ॥ -पंचभिः कुलकम् । श्रुत्वेति सद्गुरोर्वाचं पंकापनयवारिभाम् । अवलेपो ययौ तस्य हिकाऽकस्माद्भयादिव ।। ५८७ ॥ 30 अहो पुण्यपरीपाको मम यत् सूनृतः सुहृत् । संगतोऽवसरेऽमुत्र तत् तत्त्वोपकृतिं कुरु ॥ ५८८ ।। इत्युक्त्वा विरते दत्तावधाने वाक्पती प्रभुः । धर्म-देव-गुरूणां च तत्त्वान्याख्यात् तदग्रतः ।।-युग्मम् । • A आदर्श-'सौमित्रेयधनुर्धनुर्धनुरिति व्यक्ता गिरः पान्तु वः। एतादृशोऽयं चतुर्थः पादः । +A आदर्श नास्त्यसौ श्लोकः । 1 N B नास्ति । 2 N संदिहानकः। 3 N तत्र चोप।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588