Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 537
________________ 5 10 15 20 25 30 १७६ प्रभावकचरिते किं च श्री वा दिवेताल - शान्त्या चार्य स्य सद्गुरोः । पार्श्वेऽधीतस्य शैवाख्यवादिजेतुर्महामतेः ॥ १२६ ॥ सुनिचन्द्र प्रभोः किं न भवान् शिष्यशिरोमणिः । कालेऽधुनातने सङ्घोदयस्त्वय्येव तिष्ठते ॥ १२७ ॥ ततः श्री सिद्ध भू पालं विज्ञप्यात्र सकौतुकम् । त्वत्कृतं विजयं स्वस्य वयं वीक्षामहे ध्रुवम् ॥ १२८ ॥ श्राद्धानां श्राविकाणां च शतानि त्रीणि सप्त च । विजयाय तव श्रीमन्नाचामाम्लानि तन्वते ॥ १२९ ॥ प्रतिहन्तुं प्रत्यनीकसुराणां वैभवं लघु । देव्याः श्रीशासनेश्वर्या बलं दातुं स्वसत्त्वतः ॥ १३० ॥ 520 तदर्थमिति विज्ञाय विश्ववन्द्यः स बन्दिनम् । प्राहिणोद् वादिने धीमान् शिक्षयित्वा स्ववाचिकम् ॥१३१॥ स गत्वा चाह-वादीन्द्रो देवाचार्यों वदत्यदः । मन्मुखेन व्रजन्नस्मि पत्तनेऽहं त्वमापतेः ॥ १३२ ॥ सभायां सिद्धराजस्य पश्यतां तत्सभासदाम् । स्वपराभ्यस्तवाणीनां प्रमाणं लभ्यते यथा ।। १३३ ॥ भवत्वेवमिति प्रोच्य स दिगम्बरसंनिधौ । गत्वा प्रोवाच तत्सर्वं श्रुतं तेनावधानतः ॥ १३४ ॥ गमिष्यत इति प्रोक्ते वादिनाऽजायत भुतम् । तत्तस्याशकुनं मत्वा समेत्याकथयद् गुरोः ॥ १३५ ॥ ततः सूरिर्दिने शुद्धे मेषलग्ने रबौ स्थिते । सप्तमस्थे शशांके च षष्ठे राहौ रिपुदुहि ॥ १३६ ॥ प्रयाणं कुर्वतस्तस्य निमित्तं शकुनाः शुभाः । स्फुरितं दक्षिणेनाक्षणा शिरःस्पन्दोऽप्यभूद् भृशम् ॥ १३७ ॥ किकी दिविर्हशोर्मार्गमा ययौ चन्द्रकी व्यरौत् । मृगाः प्रदक्षिणं जग्मुर्विषमा विषमच्छिदः ॥ १३८ ॥ तथा रथः प्रभोस्तीर्थनाथस्याभ्यर्चितो जनैः । अभ्यर्हितप्रतिमया बभूवाभिमुखस्तथा ॥ १३९ ॥ इत्यादिभिर्निमित्तैश्च मनः 'सौष्ठवमाश्रितः । अक्षेपात् पत्तनं प्राप प्राप्तरूपेश्वरः प्रभुः ॥ १४० ॥ प्रवेशोत्सवमाधत्त सङ्घ उत्कण्ठितस्ततः । तत्र सिद्धाधिपं भूपमपश्यच्च क्षणे शुभे ॥ १४१ ॥ पुनश्च मागधाधीशो दिगम्बरपुरो गतः । प्राह स्फुटं वचोभिः श्रीदेवाचार्यस्य वाचिकम् ॥ १४२ ॥ मदं मुश्च यतः पुंसां दन्तेऽसौ व्यसनं महत् । शलाकापुरुषस्यापि दशास्यस्य यथा पुरा ॥ १४३ ॥ एवमुक्त्वा स्थिते वैतालिके दिग्वसनोऽवदत् । श्वेताम्बराः कथाभिज्ञा एषामेतद्धि जीवनम्' ॥ १४४ ॥ अहं तु तत्कथातीतः प्रीतो वादेन केवलम् । येन स्वस्य परस्यापि प्रमाणं हि प्रतीयते ॥ १४५ ॥ 'एकमेवोचितं तेन जल्पितं यन्नुपायतः । संगम्यं वामुद्रायां तदेतत् क्रियतां ध्रुवम् ॥ १४६ ॥ तत्रागच्छाम शीघ्रं च वयमप्यद्य निश्चितम् । प्रस्थान वस्तदित्युक्त्वाऽऽरुरोह च सुखासनम् ॥ १४७ ॥ संमुखं पुनरासीच्च क्षुतं व्यमृशदत्र च । विकारः श्लेष्मणः शब्दस्तत्रास्था काऽस्तु मादृशाम् ॥ १४८ ॥ स्याद्वाततोऽपि कण्डूतिर्जिह्वाया मे नरेण न । प्रतिहन्येत वादेन श्रुतमस्मान्निषेधकम् ॥ १४९ ॥ याम एव तथाप्येवमुक्त्वा सञ्चरतः सतः । अवातरत् फणी श्यामः कालरात्रेः कटाक्षवत् ॥ १५० ॥ व्यलम्बत परीवारस्तस्याशकुनसम्भ्रमात् । आह च स्वामिनो नैव कुशलं दृश्यते ह्यदः ॥ १५१ ॥ स प्राह पार्श्वनाथस्य तीर्थाधिष्ठायको मम । धरणेन्द्रो ददौ दर्श साहाय्यविधये ध्रुवम् ॥ १५२ ॥ इत्याद्यशकुनैबढं निषिद्धोऽपि दिगम्बरः । अणहिल्लपुरं प्राप तथा प्रावेशि कैरपि ॥ १५३ ॥ 1 N मद्दात्मनः। 2 N स तत्वतः । 3N प्रोचे । 4 N मतः । 5N जीवितम् । 6 N कथाभीतः । 7 N एवमेवो । 8 N तनृपा° । 9 N संगम्य ।

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588