Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 543
________________ १८२ प्रभावकचरिते शिखिवेदशिवे (११४३) जन्म दीक्षा युग्मशरेश्वरे (११५२)। वेदाश्वशंकरे वर्षे (११७४) सूरित्वमभवत् प्रभोः ॥ २८६ ॥ नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ।। ___ इत्थं श्रीदेवसूरेश्चरितमधरितक्षुद्रवादिप्रवादं ___ नादं वर्द्धिष्णु जैनप्रवचनभविनां सत्त्वमुक्तैरसेव्यम् । श्रेष्ठश्रेयःप्रदं तद् भवतु भवभृतामद्य काले भवानां । नन्द्यादाचन्द्रकालं विबुधजनशतैर्नित्यमभ्यस्यमानम् ॥ २८८ ॥ श्रीचन्द्रप्रभसूरिपसरसीहंसप्रभः श्रीप्रभा___ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीदेवसूरेः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः कुयुग्मक्रमः ॥ २८९॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम कल्पद्रुव्रजचिन्तिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूदु यन्नाममन्त्रस्मृतेः॥ २९० ॥ ॥ इति श्रीदेवसूरिप्रबन्धः॥ ॥अं० ३२५, उभयं ४८७९॥

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588