________________
१८२
प्रभावकचरिते शिखिवेदशिवे (११४३) जन्म दीक्षा युग्मशरेश्वरे (११५२)।
वेदाश्वशंकरे वर्षे (११७४) सूरित्वमभवत् प्रभोः ॥ २८६ ॥ नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ।। ___ इत्थं श्रीदेवसूरेश्चरितमधरितक्षुद्रवादिप्रवादं ___ नादं वर्द्धिष्णु जैनप्रवचनभविनां सत्त्वमुक्तैरसेव्यम् । श्रेष्ठश्रेयःप्रदं तद् भवतु भवभृतामद्य काले भवानां ।
नन्द्यादाचन्द्रकालं विबुधजनशतैर्नित्यमभ्यस्यमानम् ॥ २८८ ॥ श्रीचन्द्रप्रभसूरिपसरसीहंसप्रभः श्रीप्रभा___ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीदेवसूरेः कथा
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः कुयुग्मक्रमः ॥ २८९॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम
कल्पद्रुव्रजचिन्तिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूदु यन्नाममन्त्रस्मृतेः॥ २९० ॥
॥ इति श्रीदेवसूरिप्रबन्धः॥
॥अं० ३२५, उभयं ४८७९॥