Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 542
________________ 525 २१. वादिदेवसूरिचरितम् । १८१ तत्र प्रतिविधौ शक्तिर्मम पूज्यप्रसादतः । सौवीरपूर्ण आमायि कुम्भो यतित एकतः ॥ २५७ ।। गलपिण्डनतः कण्ठं तस्य बद्धाऽन्तराऽमुचन् । असिमक्य ततः साधूनाह सर्वत्र साहसी ॥ २५८ ।। खेदं कमपि मा कार्युर्भवन्तः कौतुकं महत् । समीक्षत यदेतेषां 'भावि दुर्विनये फलम् ॥ २५९ ॥ पादोनप्रहरे श्राद्धा नग्नस्याजग्मुरानताः । प्रसादा गुस्मस्माकं मुग्नमिति भाषिणः ॥ २६० ॥ मद्वन्धोः का भवेद् बाधा न जानीमो वयं ननु । अज्ञानदस्मतः सर्वप्रकारैस्ते निषेधिताः ॥ २६१॥ 5 सार्द्धयामे च संपूर्णे नग्नाचार्यस्तदागमत् । ननाचार्य इवाहार्यः प्रशंसां प्रकटं दधत् ॥ २६२ ॥ आश्लिष्यार्द्धासने सूरिरुपावेशयत्र तम् । भ्रातः! का वव' पीडाऽस्ति ममाज्ञातमिदं ध्रुवम् ॥ २६३ ।। स प्राह छिन्धि मा त्वं मां भव मा दीर्घरोषभूः। विमोचय निरोधं मे तन्निरोधे मृतिभ्रुवम् ॥ २६४ ॥ तस्यैतद् वचनं दीनं श्रुत्वाऽवदसौ प्रभुः। भवान् सपरिवारोऽपि यातु मे वसतेर्बहिः ॥ २६५ ।। तदादेशेन ते द्वारे स्थिता 'आध्माततुन्दकाः । लुलाया इव संपूर्ण तिम्यदुङ्गास्तदा बभुः ॥ २६६ ॥ 10 साधोः पार्थात् समानाय्य कुम्भं सौवीरपूरितम् । आच्छोटयन्मुखं तेषां सञ्जज्ञे मुत्कलः श्रवः ।। २६७ ।। अनिरोघे निरोधे सत्यसपत्राकृताश्च ते । नृजलस्य प्रवाहेण जनः सर्वोऽपि विस्मितः ॥ २६८ ॥ अर्हितोऽपि भृशं शोकतप्तस्तस्मात् पराभवात् । ययौ कुमुदचन्द्रोऽयमदृश्यत्वममाखिव ॥ २६९ ॥ तुष्टिदानं ददानस्य राज्ञः सूरेरगृहतः । आशुकोऽब्दे' गते मत्री राज्यारामशुकोऽब्रवीत् ॥ २७०॥ देवैषां निःस्पृहाणां न धनेच्छा तजिनालयः । विधाप्यते यथामीषां पुण्यं तव च वर्धते ॥ २७१॥ 15 भवत्वेवं नृपप्रोक्ते मत्री चैत्यमकारयत् । स्वेन तेनेतरेणापि स्वामिनाऽनुमतेन सः॥ २७२॥ दिनस्तोकं च संपूर्णः प्रासादोऽभ्रंलिहो महान् । मेरुलोपमः स्वर्णरत्नकुम्भध्वजालिभिः ॥ २७३ ॥ श्रीनाभेयविभोर्बिम्बं पित्तलामयमद्भुतम् । दृशामगोचर रोचिःपूरतः सूर्य बिम्बवत् ॥ २७४ ॥ अनलाष्टशिवे वर्षे (१९८३) वैशाखद्वादशीनिशि । प्रतिष्ठा विदधे तत्र चतुर्भिः सूरिभिस्तदा ॥ २७५॥ एवं प्रभावनापूरप्लाविते धर्मिणां हृदि । क्षेत्रे वपन् बोधिबीजं चिरं च व्यहरत् प्रभुः ॥ २७६ ॥ ६१२. अन्यदा व्रजतोऽरण्ये नाम्ना पिप्पलवाटके । शार्दूलं गुरुशार्दूलो रेखया स न्यषेधयत् ।। २७७ ॥ बालवृद्धाकुलो गच्छो विहारे प्रान्तरावनौ । क्षुधादिबाधया तत्र क्लिष्टो दुःप्रतिकारया ॥ २७८॥ तदीयचिन्तामात्रेण सार्थेऽकस्मादुपागते । प्रासुकैर्भक्तपानैस्तद्भव्यास्तं प्रत्यलाभयन् ॥ २७९ ॥-युग्मम् । स्थाद्वाद पूर्वकं रत्नाकरं स्वादुवचोऽमृतम् । प्रमेयशतरत्नाढ्यममुक्तं स किल श्रिया ॥ २८० ॥ 25 पीतान् दृष्टा पुरा कुम्भोद्भवेनाम्भोनिधीनिह । परवादिघटोद्भूतशवागम्यं व्यधान्नवम् ॥ २८१ ।।-युग्मम् । इति श्रीदेवसूरीणामसंख्यातिशयस्पृशाम् । वर्षाणां व्यधिकाशीतिरत्यक्रामदतन्द्रिणाम् ॥ २८२ ।। श्रीभद्रेश्वरसरीणां गच्छभारं समर्प्य ते । जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः ॥ २८३ ॥ रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोदिने ॥ २८४ ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरंदरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ २८५ ॥ त्रिभिर्विशेषकम् । 30 1N मावि। 2 D न तु। 3N बत। 4D आध्मान। 5N संपूर्णेतिम्पदंगा। * 'सपत्राकृतिनिःपत्राकृती खत्यंतपीढने।' इति D टिप्पणी। 6N'ममास्थि च। 7 N आशुकोष्ठे। 8N वियो। 9N रेखायातं ।

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588