Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 556
________________ 15 २२. हेमचन्द्रसूरिचरितम् । १९५ नृपतिः प्राह जाने श्रीहेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थं श्रीनेमिस्तत्र तीर्थकृत् ॥ ३३१ ॥ जगत्पूज्यः कृतिर्मेऽस्तु कथमेषेति संशये । श्रुत्वेत्यमात्य आह स्मावधानावधार्य्यताम् ॥ ३३२॥ अद्य प्राग् नवमे वर्षे स्वामिनाऽधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३ ।। प्रतिवर्ष त्रिलक्षी' च व्ययित्वा चैत्यमुद्धतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४॥ सप्तविंशतिलक्षांश्च द्रम्मान गृहातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलको दमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मबिन ! तुच्छं द्रव्यादशाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यं कीर्तिमयं महत् ॥३३६॥ त्वत्समः स्वजनः कोऽस्ति' ममेह-परलोकयोः । सखा विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ ३३७ ।। वचोऽनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाऽष्टाङ्गं नतो जिनम् ॥ ३३८॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नाडुनिका तथा । स्त्रीसङ्गः सूतिकापि न दध्नोऽथ विलोडनम् ॥ ३४० ॥ 10 इत्यादि सिद्ध मर्यादा वर्त्ततेऽद्यापि शाश्वती । ततोऽभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः ॥ ३४१ ॥ ततोऽम्बाशिखरं गत्वा तां संपूज्य ननाम च । अवलोकनशृङ्गं चारुरोह स तु कौतुकी ॥ ३४२ ।। तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः । दिशोऽवलोकयामास तत ऊचे स चारणः ।। ३४३ ॥ यत:मई नायं सीधेस जं चडिउ गिरनारसिरि। लई च्यारु देस अलयउं जोअई कर्णऊत्र ॥ ३४४ ॥ पर्वतादवतीर्याथ श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५ ॥ सूरिश्च तुष्टुवे तत्र परमात्मस्वरूपतः । ननाम चाविरोधो हि मुक्तेः परमकारणम् ॥ ३४६॥ तथा हियत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । 20 वीतदोषकलुषः स चेद् भवानेक एव भगवन्नमोऽस्तु ते ॥ ३४७॥ महादानानि दत्त्वा च पूजाश्च महिमाद्भुताः । व्यावृत्तः कोटिनगरं प्रापदम्बिकयादृतम् ॥ ३४८ ।। अपत्यचिन्तयाऽऽक्रान्तोऽम्बिकामाराधयत् ततः । श्रीहेमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९ ॥ उपोष्य त्रिदिनीं 'ते चाह्वयंस्तां शासनामरीम् । प्रत्यक्षीभूय साऽप्याह शृणु वाचं मुने! मम ॥ ३५०॥ नास्यास्ति सन्ततेर्भाग्यं जीवोऽपीदृग् न पुण्यभूः । समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ॥ ३५१ ॥ 25 स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः । राज्यान्तराणि जेतासौ भोक्ता च परमार्हतः ॥ ३५२ ॥ अणहिल्लपुरं प्रायादनायासोत्सवोदयम् । अन्तर्दूनः सुताभावप्रजापीडनशङ्कितः ॥ ३५३ ॥ १४. इतः श्रीकर्णभूपालबन्धुः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत् प्रासाद इव सम्पदाम् ॥३५४॥ तत्पुत्रः श्रीत्रिभुवनपाल: पालितसद्वतः । कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५ ॥ अथ श्रीसिद्धभूमीशः पुत्राशाभङ्गदुर्मनाः । आह्वाययत दैवज्ञान् परमज्ञानिसंनिभान् ।। ३५६॥ 30 ग्रहचारायसद्भाव-प्रश्नचूडामणिक्रमैः । केवलीभिश्च संवाद्य तेऽप्याचख्युः प्रभोः पुरः ॥ ३५७ ।। स्वामिन् ! कुमारपालोऽसौ युष्मद्वन्धुसुतो ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ।। 1N नृलक्ष्मी। 2 N कोऽन्यो। 8 A लइया । 4A चारू; B चारु। 5 A अलयु; B भलिऊं। 6 A B जोइ । 7N त्रिदिनान्ते। 8N सा प्राह । 9N बन्धुषु तु ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588