Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 559
________________ 10 १९८ प्रभावकचरिते 542 बहुधा बहुभिर्मत्यैश्छिद्यमानमपि क्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२२ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२३ ॥ प्रावर्त्तत च तस्यान्ते पुनीष्मे न्यवर्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२४ ॥ मम पीतपराम्भोधेरपि' भाग्याधिकः कथम् । अर्णोराज इति ध्यायन् क्षणं तस्थौ नराधिपः ॥ ४२५॥ तस्य वाग्भटदेवोऽस्ति मत्री मन्त्रीव नाकिनाम् । नीत्या क्षत्रेण मत्रेणोदयनस्याङ्गभूस्तदा ॥ ४२६ ॥ अपृच्छत् तं नराधीशः सङ्कटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथवा सुरी ॥४२७॥ प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्य नो भवतु ध्रुवम् ॥ ४२८ ॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः । अवधार्य वचः सावधानेन प्रभुणा मम ।। ४२९ ।। यदा श्रीस्वामिपादानामादेशात् प्रभुसोदरः। कीर्तिपालो महाबाहुः सुराष्टामण्डलं ययौ ॥४३०।। तद्देशाधीश्वरं निग्रहीतुं नवधनाभिधम् । अनेकशी विग्रहैश्च खेदिताद्यनराधिपम् ॥ ४३१ ॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जज्ञे सैन्यबलप्रदः ॥ ४३२ ।। अन्यदा गच्छता तत्र पुंडरीकाविरुद्धरः। द्रष्टव्यस्यावधेदृष्टस्तेन दुष्प्राप्यदर्शनः ॥ ४३३ ॥ आचख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । *धर्मश्रद्धाश्रिताश्चर्यादथ सोऽप्यारुरोह तम् ॥ ४३४ ॥ श्रीमद्युगादिनाथं च नमस्कृत्यातिभक्तितः । मेने कृतार्थमात्मानं स ध्यानादनुजः प्रभोः ॥ ४३५॥. 15 प्रासाद आलुलोके च तेन सोऽप्यतिजर्जरः। ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः॥४३६॥ प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३७ ।। पर्वतादवतीर्याथ प्रतस्थे पुरतोऽधिपः । अभ्यमित्रीणतां प्राप नृपः सोऽपि मदोद्धतः ॥ ४३८ ॥ तत आसीन्महायुद्धं कुन्ताकुन्ति गदागदि । सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३९ ।। तस्मिन्नदयनोऽपि स्वस्वामिनः' पुरतः स्थितः । प्रजहे प्रहृतश्चासौ न्यपतद् भूमिमण्डले ॥४४०॥ 20 युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः । निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४४१ ।। अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यकीयत स्फुटं साधु वणिग्व्यवहृतिः कटः' ॥४४२ ।। किंचिद् यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद् विद्धानोऽहं किंचित् ते स्यामृणातिगः॥४४३॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः । तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४४ ।। श्रीमसिद्धाधिपाद् विभ्यद् भवबन्धुः क्षितीश्वरः। बटुमेकं समीपे मे प्रैषीत् स न्यकृतो मया ॥४४५।। श्रीमान् कुमारपालोऽपि क्षणं मयि तदा घनम् । अधारयिष्यदत्युग्रमूरीचक्रे मयापि तत् ॥ ४४६ ।। इदानीं तु त्वदंवीणामग्रेऽसून् मुश्चतो मम । उभौ लोकौ निजाम्नायः श्रुतं शीलं पवित्रितम् ॥ ४४७ ।। मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तु। किंचिन्मन्नन्दनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥४४८॥ शत्रुञ्जयमहातीर्थे प्रासादस्य प्रतिश्रुतः । जीर्णोद्धारस्ततः श्रेयोहेतुर्मे स विधीयताम् ॥ ४४५॥ ओमित्युक्त्वा ततः कीर्तिपालेनाङ्गीकृते तदा । परासुरभवत् तत्र श्रीमानुदयनः शमी ॥ ४५० ॥ 30 कृते तत्रानृणो वप्तुरहं स्यामधुना पुनः । स्वां देवकुलिकामेकां नगरान्तर्व्यधापयम् ॥ ४५१॥ तथाऽत्रैव पुरे 'वासी व्यवहारी महाधनः । श्रीछड़क इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५२ ।। मन्मैत्र्या तेन चाकारि धर्मस्थानेऽत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिम्बं चास्थाप्यतामुना ॥ ४५३ ।। प्रतिष्ठितं च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमत्राणां माहात्म्यात् सकलं ह्यभूत् ॥ ४५४ ॥ 25 1A परांभोधिरपि भाग्याधिपः। * पतित एष उत्तरार्द्धः N पुस्तके। 2 A D वखमिव । 3 N व्यवहते कटुः । 4 0 तन्मुंचतो। 5N तत् । 6N परिश्रुतः। 7N पुरे वासीद् ।

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588