________________
15
२२. हेमचन्द्रसूरिचरितम् ।
१९५ नृपतिः प्राह जाने श्रीहेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थं श्रीनेमिस्तत्र तीर्थकृत् ॥ ३३१ ॥ जगत्पूज्यः कृतिर्मेऽस्तु कथमेषेति संशये । श्रुत्वेत्यमात्य आह स्मावधानावधार्य्यताम् ॥ ३३२॥ अद्य प्राग् नवमे वर्षे स्वामिनाऽधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३ ।। प्रतिवर्ष त्रिलक्षी' च व्ययित्वा चैत्यमुद्धतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४॥ सप्तविंशतिलक्षांश्च द्रम्मान गृहातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलको दमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मबिन ! तुच्छं द्रव्यादशाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यं कीर्तिमयं महत् ॥३३६॥ त्वत्समः स्वजनः कोऽस्ति' ममेह-परलोकयोः । सखा विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ ३३७ ।। वचोऽनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाऽष्टाङ्गं नतो जिनम् ॥ ३३८॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नाडुनिका तथा । स्त्रीसङ्गः सूतिकापि न दध्नोऽथ विलोडनम् ॥ ३४० ॥ 10 इत्यादि सिद्ध मर्यादा वर्त्ततेऽद्यापि शाश्वती । ततोऽभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः ॥ ३४१ ॥ ततोऽम्बाशिखरं गत्वा तां संपूज्य ननाम च । अवलोकनशृङ्गं चारुरोह स तु कौतुकी ॥ ३४२ ।। तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः । दिशोऽवलोकयामास तत ऊचे स चारणः ।। ३४३ ॥
यत:मई नायं सीधेस जं चडिउ गिरनारसिरि।
लई च्यारु देस अलयउं जोअई कर्णऊत्र ॥ ३४४ ॥ पर्वतादवतीर्याथ श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५ ॥ सूरिश्च तुष्टुवे तत्र परमात्मस्वरूपतः । ननाम चाविरोधो हि मुक्तेः परमकारणम् ॥ ३४६॥
तथा हियत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ।
20 वीतदोषकलुषः स चेद् भवानेक एव भगवन्नमोऽस्तु ते ॥ ३४७॥ महादानानि दत्त्वा च पूजाश्च महिमाद्भुताः । व्यावृत्तः कोटिनगरं प्रापदम्बिकयादृतम् ॥ ३४८ ।। अपत्यचिन्तयाऽऽक्रान्तोऽम्बिकामाराधयत् ततः । श्रीहेमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९ ॥ उपोष्य त्रिदिनीं 'ते चाह्वयंस्तां शासनामरीम् । प्रत्यक्षीभूय साऽप्याह शृणु वाचं मुने! मम ॥ ३५०॥ नास्यास्ति सन्ततेर्भाग्यं जीवोऽपीदृग् न पुण्यभूः । समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ॥ ३५१ ॥ 25 स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः । राज्यान्तराणि जेतासौ भोक्ता च परमार्हतः ॥ ३५२ ॥
अणहिल्लपुरं प्रायादनायासोत्सवोदयम् । अन्तर्दूनः सुताभावप्रजापीडनशङ्कितः ॥ ३५३ ॥ १४. इतः श्रीकर्णभूपालबन्धुः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत् प्रासाद इव सम्पदाम् ॥३५४॥
तत्पुत्रः श्रीत्रिभुवनपाल: पालितसद्वतः । कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५ ॥ अथ श्रीसिद्धभूमीशः पुत्राशाभङ्गदुर्मनाः । आह्वाययत दैवज्ञान् परमज्ञानिसंनिभान् ।। ३५६॥ 30 ग्रहचारायसद्भाव-प्रश्नचूडामणिक्रमैः । केवलीभिश्च संवाद्य तेऽप्याचख्युः प्रभोः पुरः ॥ ३५७ ।। स्वामिन् ! कुमारपालोऽसौ युष्मद्वन्धुसुतो ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ।।
1N नृलक्ष्मी। 2 N कोऽन्यो। 8 A लइया । 4A चारू; B चारु। 5 A अलयु; B भलिऊं। 6 A B जोइ । 7N त्रिदिनान्ते। 8N सा प्राह । 9N बन्धुषु तु ।