________________
प्रभावकचरिते
540
प्रतापाक्रान्तदिक्चक्रोऽनेकभूपालजित्वरः । भविष्यति पुनस्तस्य पश्चाद् राज्यं विनंक्ष्यति ॥ ३५९ ॥ श्रुत्वेति भूपतिर्भाव्यं भवतीति विदन्नपि । तत्र द्वेषं परं वोढा वधेच्छरभवत् ततः ॥ ३६० ॥ कथंचिदिति स ज्ञात्वाऽपसृत्य शिवदर्शने । जटामुकुटवान् भस्मोद्धलनः सत्तपो दधे ॥ ३६१ ॥ विज्ञप्तमन्यदा चारैर्जटाधरशतत्रयम् । अभ्यागादस्ति तन्मध्ये भ्रातूपुत्रो भवद्रिपुः ॥ ३६२ ॥ भोजनाय निमत्यन्ते ते सर्वेऽपि तपोधनाः । पादयोर्यस्य पद्मानि ध्वजश्छत्रं स ते द्विषन् । ३६३ ॥ श्रुत्वेत्याह्वाप्य तान् राजा तेषां प्राक्षालयत् स्वयम् । चरणौ भक्तितो यावत् तस्याप्यवसरोऽभवत् ॥३६४॥ पद्मेषु दृश्यमानेषु पदयोईष्टिसञ्ज्ञया । ख्यातेऽत्र तैपो ज्ञानात् कुमारोऽपि बुबोध तत् ॥ ३६५ ॥ ततः कमण्डलु हस्ते कृत्वा प्रश्रावदम्भतः । बहिर्भूय नृपावासादुपलक्षणभीदिने ॥ ३६६ ॥
वसतिं हेमसूरीणां त्रस्तः स्रस्तवपुर्बलः । आययौ भूपतो रक्ष रक्षेत्याख्यन् स्खलद् गिरा ॥ ३६७ ॥ 10 प्रभुभिः साहसात् ताडपत्रलक्षान्तराहितः । राजमौः पदायातैालोकि नतु चेक्षितः ॥३६८॥-युग्मम्।
निश्याकृष्य प्रेषितश्च प्रायाद् देशान्तरं पुनः । प्राग्वदागात् साहसिक्यमहो भाग्यस्य लक्षणम् ॥ ३६९ ।। तथा निर्गत्य तस्मात्तु वामदेवतपोवने । तत्तीर्थस्नानदम्भेन जटी प्रायादपायभीः ॥ ३७॥ आलिनाम्नः कुलालस्य यावदालयसन्निधौ । आययौ पृष्ठतो लग्नान् सादिनस्तावदैक्षत ॥ ३७१ ।। आह प्रजापते ! रक्ष शरणागतवत्सल!। मां संकटादतो रक्ष तत्रमागतमेव यत् ॥ ३७२ ॥ . स च 'सञ्चितनीवाहकोणे संस्थाप्य तं तदा । मुमोच वह्निमहाय विमुच्य तदवस्थितिम् ।। ३७३ ।। स तुरङ्गिभिरायातैः पृष्टः कोऽपि जटाधरः । तत्रायातो नवाऽजल्पि न व्यग्रत्वान्मयैक्ष्यत ॥ ३७४ ।।
निर्विद्यानादराच्चैते व्यावृत्य प्रययुस्तदा । रात्रौ सोऽपि बहिः कृष्ट स्तेन देशान्तरेऽचलत् ॥ ३७५ ।। ६१५. स्तम्भतीर्थपुरं प्रायाद् द्विजेनानुगतस्ततः । तदा वोसरिणा श्रीमान् कुमारः स्फारवृत्तभूः।।३७६॥
श्रीमालवंशभूस्तत्र व्यवहारी महाधनः । समस्त्युदयानाभिख्यस्तस्य पार्श्वगमद् बटुः ।। ३७७ ।। एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद् वणिजां श्रेष्ठः किंचित्प्रार्थितशम्बलः॥३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद् द्रागपसरेह त्वां मा द्राक्ष राजपूरुषाः॥ ३७९ ।। बटो! स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्य प्राप प्राप्तभयोदयः ॥ ३८०॥ श्रुत्वा कुमारपालोऽपि तत्पुरं प्राविशन् निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लङ्घने तदा ॥ ३८१॥ . सूरिः श्रीहेमचन्द्रश्च चतुर्मासकमास्थितः । तदा चारित्रसज्ज्ञान'लब्धिभिौतमोपमः ॥ ३८२ ॥ उद्यव्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन् सदा भव्यमनोभूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कमारोऽपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणः ।। ३८४ ॥ वरासन्युपवेश्योच्चै राजपुत्रास्स्व निर्वृतः । अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यसि ॥ ३८५ ॥ *स प्राह पूज्यपादानां प्रसादेन भविष्यति । सर्व कथं तु स" प्राप्यः कालो" नि:किंचनैः क्षुधा॥३८६॥ द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८७ ॥ अद्यप्रभृति दारिद्यं नायाति तव सन्निधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः॥ ३८८ ।। एवं भावीति चेद् राज्ये प्राप्ते मम कृतं विभो ! । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥३८९॥ इत्युक्त्वा प्रययौ देशान्तरं गूढो नराधिपः। घनं घनाघनश्छन्न इव पार्वणचन्द्रमाः॥ ३९०॥
20
30
1N जानात् । 20 प्रस्ताव 1 3 B N न तु वीक्षितः, A ननु वेक्षितः। 4 N चिन्तित । 5 N D तदा। 6 N °महदूटुः। 70 संज्ञात। 8DN भविष्यति। * एष पूर्वार्दो नास्ति A BN आदर्शपुस्तके। 9BN न। 10A B सुप्राप्यः। 11 BN कालं।