Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
5
10
15
20
25
१८०
प्रभाषकचरिते
एवं चानुमते राज्ञा प्रयोगं केशवोऽलिखत् । बुद्धा च दूषिते तत्र देवसूरिस्तथाऽवदत् ॥ २३९ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयन्निह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२ ॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः । उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३ ॥ एकं प
कोटाकोटिः कोटिकोटिः कोटीकोटिरिति त्रयः ।
शब्दाः साधुतया हन्त संमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्यानुयोगो निग्रहभूमिका । सवैवैषा समायाता व्यावर्त्तख ततो महात् ॥ २३५ ॥ अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः । सबैलक्ष्यमथाहस्मानुत्तरः स दिगंबरः ॥ २३६ ॥ महाराज ! महान् वादी देवाचार्यः किमुच्यते । राजाह वद निस्तन्द्रः कथयिष्यामि विस्मृतम् ॥ २३७॥ अवदत्यन्यसभ्यैश्च ' हारिताला प्रपातिता । सम्बन्धकविधिं भूप आदिशन्निजपूरुषैः ॥ २३८ ॥ जयपत्रं प्रसादेन देवसूरेर्ददौ नृपः । ततोऽवादीद् गुरुस्तं च किमप्याचक्ष्महे वचः ॥ २३९ ॥ शास्त्रीयवादमुद्रायां निप्रहो यत्पराजयः । वद्वादिनतिरस्कारः कोऽपि नैव विरच्यताम् ॥ २४० ॥ राजाह भवतां वाग्भिरिदमप्यतु किं पुनः । आडम्बरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१ ॥ एवं कृते तदा वज्रार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साययौ रवात् ॥ २४२॥ भूयास्त्वमक्षयस्कन्धः सिद्धाधीश ! तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननन्द तौ ॥२४३॥ मषीकूर्च्चकमालीय भाले न्यस्तो दिगम्बरः । ततः सा पश्यतामेव निश्चक्राम नभोध्वना ॥ २४४ ॥ तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः । ददृश्यषेधि निर्मन्थेश्वरेणास्पृहताजुषा ॥ २४५ ॥ गणगन्धर्वसिद्धादिदेवैः पूर्वमनीक्षितः । राजादेशात् प्रवेशस्य सोऽवर्त्त्यत महोत्सवः ॥ २४६ ॥ समस्ततूर्यनिर्घोषपूर्वं संगीतमङ्गलैः । कुलाङ्गनाकृतैः सूरिर्वसतौ प्रविवेश सः ॥ २४७ ॥ राजवैतालिकस्तत्र तारस्वरत आशिषम् । ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८ ॥ सन्तोषं स्फारनिः किञ्चनजनवचनैराहतं प्रेक्ष्य नव्यं
कामो हिंसादिकेभ्योऽप्यवगणिततमः शत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात् पुण्यपण्यं प्रवेश्य
प्रायासीद् वालयित्वा शुचिमतिवहिकां देवसूरिः स नन्द्यात् ॥ २४९ ॥ श्री सिद्ध हेम चंद्राभिधा न शब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ॥ २५० ॥ तथा हि
यदि नाम कुमुदचन्द्रं नाजेष्यद् देवसूरिरहिमरुचिः ।
कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ॥ २५९ ॥
524
श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्त्तयः । शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२ ॥
90 १११. श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । 'प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥ तदा गच्छस्य' संघस्य समस्तस्य विभावरी । विभावरीयसी चैषा विनिद्रत्वात् क्षणाद्गात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खण्डशचूर्णीकृतामाखुभिरुद्भटैः ॥ २५५ ॥ प्रवर्त्तकेन विज्ञप्ते गुरूणां ते 'व्यचिन्तयन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥
1 N °तदा°। 2 N हरिताला । 3 N साह्यगौरवात्। 4 N पूर्वमपीक्षितः । 5 N गच्छस्थ' । 6 N°रुद्भवैः । 7 N
व्यजिज्ञपन् ।

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588