Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 544
________________ 527 १८३ २२. हेमचन्द्रसूरिचरितम् । २२. श्रीहेमचन्द्रसूरिचरितम् । श्रीहेमचन्द्रसूरीणामपूर्व वचनामृतम् । जीवातुर्विश्वजीवानां राजचित्तावनिस्थितम् ॥१॥ पातकान्तकमातङ्गस्पर्शदूषणपूषणः । श्रीहेमचन्द्रसूरीणां वाचः स्वर्णोदकद्युतः ॥२॥ अनन्तागमविद्याभृन्मृतखोजीवनस्थितिः । श्रीहेमसूरिरव्याद् वः प्रतिश्रीपादलिप्तकः ॥३॥ कृतिसद्वृत्तमुक्तास्रनायकश्चरितं प्रभोः । स्थाप्यतेऽन्तः प्रकाशाय सतां हृदयवेश्मसु ॥ ४ ॥ 5 ६१. अस्ति श्रीगूर्जरो देशः क्वेशावेशवियुक्तभूः । पुरुषार्थत्रयश्रीपु स्वर्गोऽपीच्छति यत्तुलाम् ॥ ५ ॥ अणहिल्लपुरं नाम कामधुक् प्रणयिव्रजे । अस्ति प्रासादराजीमिर्नगरं नगरंगभूः ॥ ६॥ संक्रन्दनसुपारिद्विजिह्वा यस्य नोपमाम् । सुरासुरोरगाधीशाः प्रापुर्लोकेश्वरा अपि ॥ ७ ॥ स तत्र वाक्सुधासारसंप्रीणितचकोरकः । राजा सिद्धाधिपः सिद्धाधिपगीतयशा अभूत् ॥८॥-युग्मम् । सत्पूजाभोगशृङ्गारप्रभावदृढरङ्गभूः । बन्धूकमिव धन्धूकं देशे तत्रास्ति सत्पुरम् ॥ ९॥ 10 व्यूढमोढान्वयप्रौढ उदूढमहिमा दृढः । बाढमाढौकयद् दाढ्यं प्रौदिषु प्रौढचेतसाम् ॥१०॥ उत्कोचकृतसंकोच उल्लोचः सत्त्वमण्डपे । श्रेष्ठी तत्राभवच्चाचः प्रवाचः पूजयन् सदा ॥११॥-युग्मम् । गेहिनी पाहिनी तस्य देहिनी मन्दिरेन्दिरा । यस्याः सीता-सुभद्राद्याः सत्यः सत्याः सतीत्वतः ॥१२॥ सा 'स्खीचूडामणिश्चिन्तामणिं स्वप्नेऽन्यदक्षत । दत्तं निजगुरूणां च भक्त्यावेशनिवेशतः ॥ १३ ॥ चान्द्रगच्छसरःपद्मं तत्रास्ते मण्डितो गुणैः । प्रद्युम्नसूरिशिष्यः श्रीदेवचन्द्रमुनीश्वरः ॥ १४॥ 15 आचख्यौ पाहिनी प्रातः स्वप्नमस्वप्नसूचितम् । तत्पुरः स तदर्थं च शास्त्रदृष्टं जगौ गुरुः ॥ १५ ॥ जैनशासनपाथोधिकौस्तुभः संभवी सुतः । तव स्तवकृतो यस्य देवा अपि सुवृत्ततः ॥ १६ ॥ श्रीवीतरागविम्बानां प्रतिष्ठादोहदं दधौ । अन्यदा सा स चापूरि सत्पत्या भूरिपुण्यतः ॥ १७ ॥ असूत सा च पुण्येऽह्रि जितवहिप्रभं रुचा । मलयाचलचूलेव चन्दनं नन्दनं मुदा ॥ १८॥ नानाविधध्वनत्तूर्यभरडम्बरिताम्बरैः । वर्धापने व्यतीते च द्वादशाहे मुदा तदा ।। १९ ।। अभिधाविधिमाधित्सुः सनाभीन् भक्तितो निजान् । आहूय व्याहरच्चाचः सदाचरणबन्धुरः ॥ २० ॥ अस्मद्गृहेऽवतीर्णेऽत्र प्रतिष्ठादोहदोऽजनि । एतन्मातुस्तया रम्याः पूजाभिः स्युः सुरा अपि ॥ २१ ।। तचंगदेव इत्यस्य स्थानभृन्नाम सान्वयम् । विदधे विश्ववस्तूनां यतः सत्यं शुभायतिः॥ २२ ॥ -चतुर्भिः कलापकम् । क्रमुकैः क्रोडकर्पूरैः पत्रैः सौरभनिर्भरैः । दत्त्वा नागरखण्डैश्च ताम्बूलं तान् व्यसर्जयत् ॥ २३ ॥ 25 वर्द्धमानो वर्द्धमान इवासौ मङ्गलाश्रयः । शिशुत्वेऽप्यशिशुप्रज्ञः सोऽभूदक्षतदक्षतः॥ २४ ॥ तस्याथ पंचमे वर्षे वर्षीयस इवाभवत् । मतिः सद्गुरुशुश्रूषाविधौ विधुरितैनसः ॥ २५ ॥ ६२. अन्यदा मोढचैत्यान्तः प्रभूणां चैत्यवन्दनम् । कुर्वतां पाहिनी प्रायात् सपुत्रा तत्र पुण्यभूः॥२६॥ सा च प्रदक्षिणां दत्त्वा यावत् कुर्युः स्तुति जिने । चंगदेवो निषद्यायां तावन्निविविशे द्रुतम् ॥ २७ ॥ स्मरसि त्वं महास्वप्नं सकृदालोकयिष्यसि । तस्याभिज्ञानमीक्षस्व स्वयं पुत्रेण यत्कृतम् ॥ २८ ॥ 30 इत्युक्त्वा गुरुभिः पुत्रः सङ्घनन्दननन्दनः । कल्पवृक्ष इवाप्रार्थि स जनन्याः समीपतः ॥ २९ ॥ सा प्राह प्रार्थ्यतामस्य पिता युक्तमिदं ननु । ते तदीयाननुज्ञाया भीताः किमपि नाभ्यधुः ॥ ३० ॥ 20 1N भूषणाः. B 'लूषणा । 2N स्त्री चिंतामणि । जनन्या ।

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588