Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 553
________________ १९२ प्रभावकचरिते 536 5 10 15 अश्रद्धेयं वचः श्रद्धातव्यमस्मत्प्रतीतितः । प्रत्यक्षं यदुशा दृष्टमपि सन्देहयेन्मनः ॥ २३९ ।। वेदगर्भः सोमपीथी दुग्ध्वा यज्ञोपवीतकम् । अपिबदु गाङ्गनीरेण 'प्रात्तभागवतव्रतः ॥ २४०॥ असौ यत्याश्रमाभासाचारः सारखते तटे । निशीथे स्वपरीवारवृतः पिबति वारुणीम् ॥ २४१॥ राजा बुधः कविः शूरो गुरुर्वक्रः शनैश्वरः । अस्तं प्रयाति वारुण्यासगी चित्रमयं तु न ॥ २४२ ।। अथाह कविराजोऽपि सम्भ्रमोद्धान्तलोचनः । कथं हि जाघटीत्येतच्छ्रद्धेयं नापि वीक्ष्य यत् ॥ २४३ ।। अस्य तुर्याश्रमस्थस्य भोगैर्व्यवहृतैरपि । नार्थस्तद्दर्शनाचारविरुद्धैस्तु किमुच्यते ।। २४४ ॥ तेऽप्यूचुः स्वदृशाऽऽलोक्य वयं ब्रूमो न चान्यथा । यस्यादिशत तस्याथ वीक्षयामः प्रतिज्ञया ॥ २४५ ।। श्रीपालोऽप्यूचिवान् श्रीमजयसिंहनरेशितुः । अद्य दर्शयत श्यामोत्तरार्धे तत्र सङ्गते ॥ ॥ २४६ ॥ ओमिति प्रतिपन्ने च तैर्नृपाग्रे यथातथम् । व्यजिज्ञपदिदं सर्व सिद्धसारस्वतः कविः ।। २४७ ॥ इत्याकाह भूपालः सत्यं चेन्मम दर्शय । इदं हि न प्रतीयेत साक्षादृष्टमपि स्फुटम् ।। २४८ ॥ अर्धरात्रे ततो राजापसर्प प्रेक्षिताध्वना । 'सवन्तीसैकतं प्राप दुःप्रापं कातरैनरैः ॥ २४९ ॥ वृक्षवल्लीमहागुल्मान्तरितो यावदीक्षते । भूपस्तावद् ददर्शामुमुन्मत्तानुचराश्रितम् ॥ २५०॥ यथेच्छं गीयमानत्वाव्यक्तध्वनिसम्भृतम् । चषकास्यस्फुरन्मद्यप्लुतवक्रसखीसखम् ।। २५१ ।।-युग्मम् । प्रतीतः सिद्धराजोऽपि दृष्ट्वेदमतिवैशसम् । विचिकित्सां दधौ चित्ते नासाकूणन'पूर्वकम् ॥ २५२॥. अहो संसारवैचित्र्यं विद्वांसो दर्शनाश्रिताः । इत्थं विलुप्तमर्यादाः कुर्वते कर्म कुत्सितम् ।। २५३ ॥ इदानीं यद्यहं साक्षादेनं नो जल्पयाम्यथ । प्रातः किमेष मन्येत दुश्चरित्रमिदं ननु । २५४ ।। इति ध्यायत एवास्य वाणी भूपस्य कर्णयोः। प्राविशत् प्रकटा कोटिं रसप्राप्तातिकेलितः ॥ २५५ ।। वीक्ष्य प्रान्तदशं स्वेशं तत्तेजःप्रसरोज्ज्वला । विभान्त्यनु प्रयाति स्म ज्योत्स्ना कटसतीस्थितिः ॥ २५६ ।। प्रसन्नास्वादमत्यन्तप्रसन्नास्वादमेककम् । विधायाथ निजं स्थानं गम्यतेऽथ विरम्यते ॥ २५७ ॥ इतिस्मृतिमनु क्षमापः' प्रकटं वदति स्म तम् । अपि नः संविभागोऽस्तु कः स्वादेषु पराङाखः ।। २५८॥ क्षणं ध्यात्वा समुत्पन्नप्रतिभः प्रोचिवानिति । भवता निधिना भूप! दिष्ट्या वर्द्धमहे वयम् ॥ २५९॥ सौवर्णपात्रमापूर्यार्पितं तेनाथ भूभृता' । यावत् समीक्ष्यते तावत् क्षीरपूर्ण 'व्यलोक्यत ॥ २६० ॥ पपावथामृतास्वादं व्यमृशद् भूपतिः क्षणम् । इदं दुग्धं नु मद्यं वा शक्त्यापावृत्ततद्रसम् ॥ २६१ ।। चेत् परावृत्तमस्याहो शक्तिप्रातिभमद्भुतम् ! । ततो विससृजेऽनेनावसरोऽयं मनीषिणा ।। २६२ ।।. प्रातर्भूपसभां गत्वा देवबोधस्ततोऽवदत् । आपृच्छयसे महाराज ! वयं तीर्थयियासवः ।। २६३ ॥ श्रीसिद्धभूपतिः प्राह भवादृशमुनीश्वराः। देशस्य शान्तिनीरं कः प्रहेण्यति सकर्णकः ॥ २६४ ॥ आह सोऽप्यर्थवादेन कृतं यत्र 'क्षितीश्वरः । प्रत्येति खलभाषाभिः स्थितिस्तत्र न युज्यते ॥ २६५ ॥ कुलविद्यावयोज्ञानशक्तयश्चेन्नरं नहि । व्यावर्तयन्ति सन्निन्द्यकर्मभ्यस्तत् "परैर्हि किम् ॥ २६६ ॥ देवा देव्यो महामत्रा विद्याश्चानेकशो वशे । येषां ताः सिद्धयश्चाष्टौ कल्यास्तेऽर्वाग्"जनैर्हि किम् ॥२६७।। ततो भूपाल ! नास्मागयोग्या पर्षत् तव स्फुटम् । ईदृग्ग्रामनटग्राम्यसंयोगः सदृशोऽस्तु वः ॥ २६८ ॥ साकूतमवद् भूपः श्रीपालं कविपुङ्गवम् । शुश्रुवे शमिनो वाक्यं कोपगर्भ ननु त्वया ॥ २६९ ॥ प्रज्ञाचक्षुः कविर्दध्यौ कार्यसन्मानदण्डितः । भिक्षुरेष क्रियाभ्रष्टः स्रस्तरूपो यथा भवेत् ॥ २७०॥ 20 1 BN प्राप्तभागवत°12 N अवन्ति । 3 N नासाक्षणन 140 °सतीखिति । 5 N °मनुक्ला यः। 6 N संविभागेषु । 7A भूमृतः। 8 N व्यलोकयत् । 9 N कृतीश्वरः। 10 N तत्पुरे हि। 11 N कल्पस्तैर्वाग् ।

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588