________________
१९२
प्रभावकचरिते
536
5
10
15
अश्रद्धेयं वचः श्रद्धातव्यमस्मत्प्रतीतितः । प्रत्यक्षं यदुशा दृष्टमपि सन्देहयेन्मनः ॥ २३९ ।। वेदगर्भः सोमपीथी दुग्ध्वा यज्ञोपवीतकम् । अपिबदु गाङ्गनीरेण 'प्रात्तभागवतव्रतः ॥ २४०॥ असौ यत्याश्रमाभासाचारः सारखते तटे । निशीथे स्वपरीवारवृतः पिबति वारुणीम् ॥ २४१॥ राजा बुधः कविः शूरो गुरुर्वक्रः शनैश्वरः । अस्तं प्रयाति वारुण्यासगी चित्रमयं तु न ॥ २४२ ।। अथाह कविराजोऽपि सम्भ्रमोद्धान्तलोचनः । कथं हि जाघटीत्येतच्छ्रद्धेयं नापि वीक्ष्य यत् ॥ २४३ ।। अस्य तुर्याश्रमस्थस्य भोगैर्व्यवहृतैरपि । नार्थस्तद्दर्शनाचारविरुद्धैस्तु किमुच्यते ।। २४४ ॥ तेऽप्यूचुः स्वदृशाऽऽलोक्य वयं ब्रूमो न चान्यथा । यस्यादिशत तस्याथ वीक्षयामः प्रतिज्ञया ॥ २४५ ।। श्रीपालोऽप्यूचिवान् श्रीमजयसिंहनरेशितुः । अद्य दर्शयत श्यामोत्तरार्धे तत्र सङ्गते ॥ ॥ २४६ ॥ ओमिति प्रतिपन्ने च तैर्नृपाग्रे यथातथम् । व्यजिज्ञपदिदं सर्व सिद्धसारस्वतः कविः ।। २४७ ॥ इत्याकाह भूपालः सत्यं चेन्मम दर्शय । इदं हि न प्रतीयेत साक्षादृष्टमपि स्फुटम् ।। २४८ ॥ अर्धरात्रे ततो राजापसर्प प्रेक्षिताध्वना । 'सवन्तीसैकतं प्राप दुःप्रापं कातरैनरैः ॥ २४९ ॥ वृक्षवल्लीमहागुल्मान्तरितो यावदीक्षते । भूपस्तावद् ददर्शामुमुन्मत्तानुचराश्रितम् ॥ २५०॥ यथेच्छं गीयमानत्वाव्यक्तध्वनिसम्भृतम् । चषकास्यस्फुरन्मद्यप्लुतवक्रसखीसखम् ।। २५१ ।।-युग्मम् । प्रतीतः सिद्धराजोऽपि दृष्ट्वेदमतिवैशसम् । विचिकित्सां दधौ चित्ते नासाकूणन'पूर्वकम् ॥ २५२॥. अहो संसारवैचित्र्यं विद्वांसो दर्शनाश्रिताः । इत्थं विलुप्तमर्यादाः कुर्वते कर्म कुत्सितम् ।। २५३ ॥ इदानीं यद्यहं साक्षादेनं नो जल्पयाम्यथ । प्रातः किमेष मन्येत दुश्चरित्रमिदं ननु । २५४ ।। इति ध्यायत एवास्य वाणी भूपस्य कर्णयोः। प्राविशत् प्रकटा कोटिं रसप्राप्तातिकेलितः ॥ २५५ ।। वीक्ष्य प्रान्तदशं स्वेशं तत्तेजःप्रसरोज्ज्वला । विभान्त्यनु प्रयाति स्म ज्योत्स्ना कटसतीस्थितिः ॥ २५६ ।। प्रसन्नास्वादमत्यन्तप्रसन्नास्वादमेककम् । विधायाथ निजं स्थानं गम्यतेऽथ विरम्यते ॥ २५७ ॥ इतिस्मृतिमनु क्षमापः' प्रकटं वदति स्म तम् । अपि नः संविभागोऽस्तु कः स्वादेषु पराङाखः ।। २५८॥ क्षणं ध्यात्वा समुत्पन्नप्रतिभः प्रोचिवानिति । भवता निधिना भूप! दिष्ट्या वर्द्धमहे वयम् ॥ २५९॥ सौवर्णपात्रमापूर्यार्पितं तेनाथ भूभृता' । यावत् समीक्ष्यते तावत् क्षीरपूर्ण 'व्यलोक्यत ॥ २६० ॥ पपावथामृतास्वादं व्यमृशद् भूपतिः क्षणम् । इदं दुग्धं नु मद्यं वा शक्त्यापावृत्ततद्रसम् ॥ २६१ ।। चेत् परावृत्तमस्याहो शक्तिप्रातिभमद्भुतम् ! । ततो विससृजेऽनेनावसरोऽयं मनीषिणा ।। २६२ ।।. प्रातर्भूपसभां गत्वा देवबोधस्ततोऽवदत् । आपृच्छयसे महाराज ! वयं तीर्थयियासवः ।। २६३ ॥ श्रीसिद्धभूपतिः प्राह भवादृशमुनीश्वराः। देशस्य शान्तिनीरं कः प्रहेण्यति सकर्णकः ॥ २६४ ॥ आह सोऽप्यर्थवादेन कृतं यत्र 'क्षितीश्वरः । प्रत्येति खलभाषाभिः स्थितिस्तत्र न युज्यते ॥ २६५ ॥ कुलविद्यावयोज्ञानशक्तयश्चेन्नरं नहि । व्यावर्तयन्ति सन्निन्द्यकर्मभ्यस्तत् "परैर्हि किम् ॥ २६६ ॥ देवा देव्यो महामत्रा विद्याश्चानेकशो वशे । येषां ताः सिद्धयश्चाष्टौ कल्यास्तेऽर्वाग्"जनैर्हि किम् ॥२६७।। ततो भूपाल ! नास्मागयोग्या पर्षत् तव स्फुटम् । ईदृग्ग्रामनटग्राम्यसंयोगः सदृशोऽस्तु वः ॥ २६८ ॥ साकूतमवद् भूपः श्रीपालं कविपुङ्गवम् । शुश्रुवे शमिनो वाक्यं कोपगर्भ ननु त्वया ॥ २६९ ॥ प्रज्ञाचक्षुः कविर्दध्यौ कार्यसन्मानदण्डितः । भिक्षुरेष क्रियाभ्रष्टः स्रस्तरूपो यथा भवेत् ॥ २७०॥
20
1 BN प्राप्तभागवत°12 N अवन्ति । 3 N नासाक्षणन 140 °सतीखिति । 5 N °मनुक्ला यः। 6 N संविभागेषु । 7A भूमृतः। 8 N व्यलोकयत् । 9 N कृतीश्वरः। 10 N तत्पुरे हि। 11 N कल्पस्तैर्वाग् ।