________________
537
२२. हेमचन्द्रसूरिचरितम् ।
१९३
उवाच च महाराजाऽचिन्त्यशक्तिभृतो ह्यमी । महाप्रभावा मुनयो न प्रहेयाः स्वदेशतः ।। २७१ ॥ नहि द्रव्येण विद्वांस आवय॑न्ते न चाटुभिः। परिज्ञातस्वभावा हि सद्वात्सल्येन केवलम् ॥ २७२ ॥ श्रुत्वा श्रव्यं वचस्तथ्यं स्वशिरो मुनिपादयोः । स्पर्शयित्वा जगौ वाक्यं राजा विनयसम्भृतम् ॥ २७३ ।। मुनिसद्वृत्तमाहात्म्याद् भूपालाः पालकाः क्षितेः । वासवा इव शोभन्ते तत्र हेतुर्नहीतरः ।। २७४ ।। अस्मद्देशान्तरा तिष्ठ क्रियानिष्ठमुनीश्वर ! । अर्थिप्रणयभङ्ग हि महात्मानो न कुर्वते ॥ २७५ ॥ 5 इत्थं गिरां भरैः प्रीतोऽवातिष्ठत गुरुस्तदा । तिस्रः समाः समासन्नदारिद्र्यश्च शनैरभूत् ॥ २७६ ।। तस्य न केय-विक्रेयव्यवहाराद् धनागमः । राजदत्तं हि भुज्येत तद्विना दौस्थ्यमाययौ ॥ २७७ ॥ सूरेः श्रीहेमचन्द्रस्य विदितं वृत्तमप्यभूत् । श्रीश्रीपालश्च तत्पार्श्वेऽमत्रयत् तदिदं रहः ॥ २७८ ॥ असौ भिक्षुर्निजाचारभ्रष्टो नष्टक्रियः कुधीः । निष्ठानिष्ठयतिव्यूहादृश्यवक्रः कुवृत्तभूः ॥ २७९ ॥ दारिद्यराजधानीत्वादिदानीमृणजर्जरः । मदोद्धतमहालोल लोलावशविनष्टभूः ॥ २८० ॥
10 अधुना सपरीवारो भिक्षया भुक्तिभाक् ततः। दर्शनी दर्शनाचारे स्थापितो निजलक्षणैः ॥ २८१ ॥ सिद्धीनामष्टसंख्यानां षड् ययुस्तस्य सद्गुणैः । अणिमा लघिमा च द्वे पोषं प्रापतुरद्भुतम् ॥ २८२ ।। श्रीसिद्धाधीश्वरं मूर्त्त देवेन्द्रमिव तेजसा । सौधमौलिस्थकाकोल इव सिंहासने स्थितः ॥ २८३ ।। वर्णाश्रमगुरुं भूमावुपदेशयति स्म यः । निर्विवेकस्य तस्यैतन् मान्यावज्ञालताफलम् ॥ २८४ ॥ मया चाश्रावि तन्मत्रो यदृणोपद्रवो हि नः । राज्यपूज्यं हेमचन्द्रं विना न प्रतिहन्यते ॥ २८५ ॥ 15 तदसौ चेत् समायाति पूज्यपाद्यं ततोऽपि न । मान्योऽसौ पतितस्यास्य वकं कः प्रेक्षते सुधीः ॥ २८६ ।। अथोचुर्गुरवो यूयं यजल्पत तदेव तत् । एकत्रास्य गुणे नस्तु बहुमानः परत्र नः ॥ २८७ ॥ दृश्यते ऽनन्यसामान्यं सांक्रामिक गुणोत्तरम् । सारस्वतं न कुत्रापि समयेऽस्मिन्नमुं विना ॥ २८८ ॥ ततोऽसौ निर्विषः सर्प इव चेदागमिष्यति । म्लानमानः कुतो धीमान् लभ्याऽनेनापि सत्कृतिः ॥२८९॥
अथाह कविराजोऽपि गुणमेवेक्षते महान् । कृष्णवत् कृष्णमुक्तासुश्वदन्तधवलत्ववत् ॥ २९०॥ 20 . स्वाभिप्रायो मया प्रोचे पुनः पूज्यैर्बहुश्रुतैः । यथाविचारं कार्याणि कार्याणि गरिमोचितम् ।। २९१ ॥
अन्यदाभिनवग्रन्थगुम्फाकुलमहाकवौ । पट्टिकापट्टसंघातलिख्यमानपदब्रजे ॥ २९२ ॥ शब्दव्युत्पत्तयेऽन्योन्यं कृतोहापोहबन्धुरे । पुराणकविसन्हब्ध दृष्टान्तीकृतशब्दके ।। २९३ ॥ ब्रह्मोल्लासनिवासेऽत्र भारतीपितृमन्दिरे । श्रीहेमचन्द्रसूरीणामास्थाने सुस्थकोविदे ।। २९४ ।। क्षुधातुरपरीवारप्रेरितः स परेद्यवि । अपराह्ने समागच्छत् प्रतीहारनिवेदितः॥२९५।।-चतुर्भिः कलापकम् । 25 अभ्युत्तस्थुश्च ते देवबोधविद्वन्मतल्लिकाम् । मन्त्रौषधिप्रभास्तब्धवह्निवच्छीततेजसम् ॥ २९६॥ स्वागतं स्वागतं विद्वत्कोटीर जगती' श्रुतः । कृतपुण्यं दिनं यत्र जातस्त्वं लोचनातिथिः ॥ २९७ ॥ तदलंक्रियतामद्यार्द्धासनं नः कलानिधे !। सङ्कटेष्वपि नियूंढकलाप्रागल्भ्यभूषित ! ॥ २९८ ॥ श्रुत्वेति देवयोधोऽपि दध्यौ मे मर्म वेत्त्यसौ । कथनात् कथनातीतकलातो वा न विद्महे ॥ २९९ ॥ यथातथा महाविद्वानसौ भाग्यश्रियोर्जितः । अत्र को मत्सरः स्वच्छे बहुमानः शुभोदयः ॥ ३००॥ 30 समयेऽद्यतने कोऽस्य समानः पुण्य-विद्ययोः । गुणेषु कः प्रतिद्वन्द्वी तस्मात् प्राञ्जलतोचिता ।। ३०१॥ अथोपाविशदेतेनानुमतेऽर्द्धासने कृती । मनसा मन्यमानश्च पुंरूपां तां सरस्वतीम् ।। ३०२ ॥ सविस्मयं गिरं प्राह सारसारखतोज्वलः । पार्षद्यपुलकारघनाघनघनप्रभाम् ॥ ३०३ ॥
1 A क्षितौ; N क्षितैः। 2A दारिद्रश्च; N समासन्नादरिद्र । 3 N नष्टः क्रिया। 4 N योषे। 5 N नान्यसामान्य । 6N संक्रामित°। 70 °मानकृतो। 8 N °संदृष्ट । 9A B जगतीश्वरः ।
प्र०२५