Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 549
________________ १८८ प्रभावकचरिते ___532 5 10 15 अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥ १४७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ॥ १४८ ॥ विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामासौ द्विजव्यूहोऽतिधीरगीः ॥ १४९ ॥ राजाप्याह न भूपाला अविमृश्य विधायिनः । दर्शनानां तिरस्कारमविचार्य' न कुर्वते ॥ १५० ॥ अनुयोज्या अमी चात्र दद्युश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवात्र नः सुहृत् ॥ १५१ ।। हेमाचार्योऽपि निर्ग्रन्थः सङ्गत्यागी महामुनिः। असूनृतं कथं ब्रयाद् विचार्य तदिदं बहु ॥ १५२ ।। एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ।। १५३ ।। अपृच्छदथ माध्यस्थ्यात सर्वसाधारणो नृपः । शास्त्रे चाहती दीक्षा किं' गृहीता पाण्डवैः किमु ॥१५४॥ सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां म हा भारत मध्यतः ॥ १५५॥ परमेतन्न जानीमो ये न (नः?) शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ॥१५६॥ राजाह तेऽपि बहवः पूर्व जाताः कथं मुने! । अथावोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप!॥ १५७ ॥ व्याससन्दर्भिताख्याने श्रीगांगेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच स्वं परिच्छदम् ।। १५८ ॥ मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग भूमिखण्डे सदा शुचौ ॥ १५९ ॥ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्यास्य ययुर्गिरौ ॥ १६० ॥ अमानुषप्रचारे च शृङ्गे कुत्रापि चोन्नते । अमुश्चन् देवतावाणी कापि तत्रोद्ययौ तदा ॥ १६१ ॥ तथा हिअत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्रं तु कर्णसंख्या न विद्यते ॥ १६२॥ एतद् वयमिहाकर्ण्य 'व्यमृशाम वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ॥ १६३ ॥ गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमञ्चन्द्रप्रभालये ॥ १६४॥ केदारे च महातीर्थे कोऽपि कुत्रापि तद्रतः । बहूनां मध्यतो धर्म तत्र ज्ञानं न 'नः स्फुटम् ॥ १६५ ॥ स्मार्त्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः । ज्ञानं कुत्रापि चेद् गङ्गा नहि कस्यापि पैतृकी ।। १६६॥. राजा श्रुत्वाह तत्सत्यं वक्ति जैनर्षिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥ १६७ ॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद्विचार्यैव कार्य कार्य क्षमाभृता ॥ १६८॥ तथाहमेव कार्येऽत्र दृष्टान्तः समदर्शनः । समस्तदेवप्रासादसमूहस्य विधापनात् ॥ १६९ ॥ उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥ १७०॥ राज्ञा सत्कृत्य सूरिश्वाभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥१७१॥ भूपेन सत्कृतश्चैवं हेमचन्द्रप्रभुस्तदा । श्रीजैनशासनव्योनि प्रचकाशे गभस्तिवत् ॥ १७२ ॥ ६९. राज्ञः सौवस्तिकोऽन्येारामिगाख्यो वृथा रुषम् । वहन जजल्प सूरिं तं निविष्टं राजपर्षदि॥१७॥ धर्मे वः शमकारुण्यशोभिते न्यूनमेककम् । व्याख्याने कृतशृङ्गारास्त्रिय 'आयान्ति सर्वदा ॥ १७४ ॥ भवन्निमित्तमकृतं प्रासुकं ददते च ताः। विकारसारमाहारं तद्ब्रह्म क स्थितं हि वः ॥ १७५ ॥ यत:विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशना स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । 1A °मविचार्येह; D °मविचार्येण । 2 N नास्ति 'कि' । 3 N विमृशाम । 4 N ततः। 5 D स्त्रियश्चायांति । 20 30

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588