Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प्रभावकचरिते
१०२ ॥
इति न स्खलिता शक्तिर्मम मत्यैः सुरैरपि । त्वं तु श्वेताम्बराकारो दैवं मत्तोऽपि शक्तिमान् ।। ९५ ।। नावमन्तुमहं शक्तः समीक्षे दूरतः स्थितः । रेखाकुण्डं ज्वलच्चारवदिदं शङ्कितः पुमान् ॥ ९६ ॥ तुष्टस्तव तपःशक्तेः वाञ्छितं प्रार्थय द्रुतम् । अक्षेपात् पूरयिष्ये तत् कल्पवृक्ष इव ध्रुवम् ॥ ९७ ॥ पारयित्वा ततो वीरः परमेष्ठिनमस्कृतेः । जगादनादरा अत्र सर्वसङ्गमुचो वयम् ॥ ९८ ॥ तथापि किञ्चिन्मद्भक्तेर्गृहाणेत्युदितेऽमुना । मुनिराहं वधं रक्ष तवाप्यायुर्विनश्वरम् ॥ ९९ ॥ दुर्गतौ पतने हेतुमलोऽयं प्राणिनां वधः । तथाख्यातैः पुरावृत्तैर्हर्षो मे नाऽत्यहंकृतैः ॥ १०० ॥ महादानेषु सामर्थ्यमात्मनश्च त्वयोदितम् । जीवाभयप्रदानं च सर्वेभ्योऽप्युत्तमं पुनः ॥ १०१ ॥ हर्षादाह स तथ्यं ते वचो जानेऽहमप्यदः । स्वेच्छाचारी परीवारो मम तस्य प्रियं त्विदम् ॥ त्वद्वचोभिः सुधासारसारैरित्यतिहर्षितः । प्रासादजगतीमध्ये जीवानां रक्षये वधम् ॥ १०३ ॥ श्रीवीरोऽप्याह भूयात् तद् राज्ञा ज्ञातमिदं वचः । आचन्द्रकालिकं वृत्तमावयोः पुण्यहेतवे ॥ १०४ ॥ ६५. अणहिल्लपुरे 'वासीच्चक्रवर्त्तीव 'नूतनः । श्रीमान् चामुण्डराजाख्यस्तत्रास्मिन्— समये नृपः ॥१०५॥ अज्ञापयदिदं च श्री विरूपानाथ एव तत् । प्रधानैस्तैर्नृपस्याथ हर्षात् तत्राययौ च सः ।। १०६ ।। सत्कर्मणि चिकीर्षात्र कस्य नो महतेत्यसौ । विज्ञाय जीवरक्षायै तच्छासनमची करत् ॥ १०७ ॥ आहूतश्च ततो राज्ञा पुनरप्याययौ तदा । अणहिल्लपुरं धीरस्तत्राबोधानबोधयत् ॥ १०८ ॥ आचार्यत्वप्रतिष्ठाऽस्य विदधे परमर्षिभिः । सूरिभिर्वर्द्धमानाख्यैः सङ्घाध्यक्षं महोत्सवात् ॥ १०९ ॥ तत्र श्री वलभीनाथः श्रीवीरप्रभुभक्तितः । प्रत्यक्षीभूय धर्माख्यां शृणोत्यस्याप्रतः स्थितः ॥ ११० ॥ परं क्रीडाप्रियत्वेन नरं प्रेक्ष्य सलक्षणम् । अवतीर्यास्य देहे च क्रीडते पीडया विना ॥ १११ ॥ श्रीमान् वीरोऽपि तद् दृष्ट्वाऽवादीदेवं न सांप्रतम् । व्यन्तराधीश ! ते केलिं मनुष्या असहिष्णवः ॥ ११२ ॥ एवं निववृते चासौ प्रभुणा स निषेधितः । तथाह मम तोषस्य फलं किमपि नात्र वः ! ॥ ११३ ॥
20 ६६.
उवाच 'प्रभुरानन्दात् तव सामर्थ्यमस्ति किम् । अष्टापदाचले गन्तुं श्रीजैन भवनोन्नते ॥ ११४ ॥ 'देवः प्राह शक्तिर्नो गन्तुं नावस्थितौ पुनः । तत्र सन्ति यतः सूरे ! व्यन्तरेन्द्रा महाबलाः ।। ११५ ॥ अवस्थातुं न शक्नोमि तत्तेजः सोदुमक्षमः । याममेकं त्ववस्थास्ये चल' चेत् कौतुकं तव ॥ ११६ ॥ अधिकं तु क्षणं मित्र ! त्वमवस्थास्यसेऽथ चेत् । तत्तत्रैव भवानत्रागन्ताऽहं तु ध्रुवं ह्यदः ॥ ११७ ॥ नौ तत्प्रतिपेदाने धवलं धवलं ततः । विकृत्यारोहयत् तं च वस्त्रवेष्टितमस्तकम् ॥ ११८ ॥ क्षणेनैव ययौ तस्य गिरेर्मूर्ध्नि स ऊर्द्धगः । वृषादुत्तारयामास चैत्यद्वारे ततो मुनिम् ॥ ११९ ॥ द्वारपाञ्चालिकाजानुपाश्चात्यशुषिरान्तरे' । तस्थौ निलीय तत्रस्थदेवज्योतिरसासहिः ॥ १२० ॥ गव्यूतत्रितयोच्छ्रायं योजनायामविस्तरम् । चतुर्द्वारं महाचैत्यमाद्यचक्रिविधापितम् ॥ १२१ ॥ दृष्ट्वा प्रमाणवर्णैश्च प्रतिमास्ता यदो (थो ) दितैः । एकैकस्मान्नमस्काराच्छु (स्तु ?) त्वा स प्राणमन्मुदा ॥१२२॥ प्रभावनाविधित्सायै तदभिज्ञानमानयत् । पंच शाल्यक्षतान्' तस्मादग्रहीन्नाकि ढौकितान् ॥ १२३ ॥ निशायाः प्रथमे यामे चलितस्तीर्थयात्रया । प्राग्वत् स पुनरायाच्च द्वितीये घटिकाधिके ॥ १२४ ॥ सौरभामोदतः शालेरक्षतानामुपाश्रयः । विमानमिव सौधर्म" सुमनः संवृतो बभौ ॥ १२५ ॥ पृष्ठे मुनिभिराहाथ गुरुरष्टापदाचले । वन्दयध्वं मुदा देवान् श्राद्धाऽकथयंश्च तम् ॥ १२६ ॥ चैत्ये च मिलितः सङ्घः श्रीमान् भूमिपतेः स च । आख्यापयन् महाश्चर्य कौतुकादाययौ स च ॥ १२७॥
5
10
15
25
१३०
30
474
1 A °र्निकृंतनं । 2 N ° पुरे चासी 3 N 'वर्ती च । 4 N °स्तत्रापि । 5 N पुनरा° । 6 N बलवत् । 7 N शिखरान्तरे । 8A गव्यूति । 9A D शाल्यकृतान् । 10 N साधर्मं ।

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588