Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
5
10
137
15
१५६
20
25
प्रभावकचरिते
I
तूष्णीष्विति विश्रुत्य तेषु भूपो निजैर्नरैः । समपिण्डयदेकत्र वाटके तान् पशूनिव ॥ ११६ ॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तुं नादाश्च सर्वेषामैकमत्यचिकीर्षया ॥ ११७ ॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैर्निजैः । मतिरेका' कथं तेषां धान्येष्वेको यथा रसः ॥ ११८ ॥ क्षुधा बाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष्य इति चिन्तामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सान्त्वनापूर्वकं तदा ।। १२० ।। भूपाल: काल एवायं य एवं दर्शनत्रजे । ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवन्तो गुर्जराश्छेका वाक्प्रपश्वेन केनचित् । निवर्त्तयध्वमेनं कुविकल्पादमुतो दृढात् ॥ १२२ ॥ परं सहस्रलोकानां भवन्तः प्राणदानतः । उपार्जयध्वमत्युत्रं पुण्यं यद्गणनातिगम् ॥ १२३ ॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतौ । कार्यं भवेन्महीशो ऽपि न नः * प्रतिवदेत् किमु ॥ १२४ ॥ परन्तु दर्शनश्रेणिराराध्याऽनादिपद्धतिः । तदुक्तोपक्रमं किञ्चित् करिष्यामो विमोचकम् ॥ १२५ ॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद् गुरुः । आयातयातमस्माकं नृपेण सह नामतः ॥ १२६ ॥ परं दर्श निलोकानां बहूनामनुकम्पया । किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः ॥ १२७ ॥ राजापि शीघ्रमायातु गूर्जरः कविकुञ्जरः । इत्युक्ते मत्रिभिः सार्धं स ययौ राजमन्दिरम् ॥ १२८ ॥ अवदद् भूपते ! अभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् तप एव तपस्विनाम् ॥ १२९ ॥ . परं न नः स्वर्क' कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३० ॥ तत्रापि हि गताः किं नु स्वरूपं कथयेमहि । धारापुरश्च संस्थानं पृच्छामो भवदन्तिके ॥ १३१ ॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२ ॥ स्वरूपं मत्पुरो यूयं शृणुताव्यप्रचेतसः । चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिता ॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विंशतिरानामेवं पुरि च सूत्रणा ॥ सूरिः प्राहैकमेका कुरु किं बहुभिः कृतैः । एकत्र सर्वं लभ्येत लोको भ्रमति नो यथा राजाऽवदत् पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबांधा ततश्चक्रे पृथग हट्टावली मया ॥ इत्याकर्ण्यावदत् सूरिर्भूरिर्वक्तृत्व केलिषु' । विद्वानपि महाराज ! विचारयसि किं नहि स्वकृतान्यपि हट्टानि भङ्कं न क्षमसे यदि । अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ दयार्थी जैनमास्थेयाद् रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुत्यर्थी च निरञ्जनम् ॥ १३९ ॥ चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत् तस्मान्महीपाल ! विचिंतय ॥ १४० ॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचद् धृतेः ॥ अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतोऽगच्छन् निजं सूरिरुपाश्रयम् ॥
I
१३३ ॥ १३४ ॥
॥ १३५ ॥
१३६ ॥
॥
१३७ ॥
१३८ ॥
१४१ ॥ १४२ ॥
६६.
1
तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहन्निशं भृशम् ॥ १४३ ॥ मिलन्ति सुधियः सर्वे तत्राकारणमागमत् । ततः " प्रचलितः सूरिः श्रीमान् " बूटसरखती" ॥ १४४ ॥ सष्यामो वयमपि सुराचार्येण जल्पिते । गुर्जरावनिविद्वत्ताशङ्कया च न्यषेधि तैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोषतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मादृशविद्वन्निरीक्षणे । कुतूहलाइ विहारो नः समागच्छाम एव तत् ॥ १४७ ॥ अथ तेऽप्यनुमन्तारोऽप्रतिषेधेन तान् सह । नीतवन्तस्तदा पाठशालायां शङ्कितास्तदा ।। १४८ ।।
30
500
1 N गतिरेकः । 2 A D क्षुदा । 3D महेशोऽपि । 4AB न न प्रति । 5 N सहसाग्रतः । 6 N भूप । 7 N परं ततः कथं । 8 N कथयामहो । 9A B भूरिवत्कृत्व केलिषु । 10 N तत्र । 11 N चूडसर° 12 A ° सरखतीं ।

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588