Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 518
________________ 501 १८. सूराचार्यचरितम् । उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्रस्थिताचारणहिल्लपुरादिते ॥ १४९ ॥ विशेषसम्भ्रमाञ्चक्रेऽध्यापकः' स्वागतादिकम् । उपावीविशदेषोऽपि प्रधानासनि तवयम् ॥ १५०॥ सूराचार्यस्ततः प्राह प्रन्थः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत्॥१५१॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह च्छात्रैः पटुस्खरमुवाच तम् ॥ १५२ ॥ तद्यथाचतुर्मुखमुखाम्भोजवनहंसवधर्मम । मानसे रमतां नित्यं शुद्धवर्णा सरखती ॥ १५३ ॥ मराचार्यस्ततः प्राह किञ्चिदत्तासगर्भितम । एवंजातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी साम्प्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५॥ चित्रमश्रुतपूर्व तदन्यत् पृच्छामि किञ्चन । मातुलस्य सुता गम्या यथाऽऽस्ते दक्षिणापथे ॥ १५६ ॥ 10 सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवदेशे तथा गम्याऽनुजाङ्गजवधूः कथम् ।। १५७ ॥ यद्वधूशब्दसामीप्ये 'मानसे रमतां मम । प्रयुक्तं तद् भवन्त्येव देशाचाराः पृथग्विधाः ॥ १५८॥ अनुत्तरं प्रतिहतश्वालयन्नन्यसंकथा: । कालं विलम्बयामासेष्टानध्यायकृतादरः॥१५९॥ सन्ध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः । अपराहेतिवृत्तं स जगौ विस्मयकारकम् ॥ १६०॥ भूपश्च विस्मितः प्राह सम्भाव्यं गूर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहूय निश्चितम् ॥ १६१ ॥ 15 तत्रस्थाचार्यपाधै च भूपालः प्रेषयन्नरान् । आह्वातुमतिथिं ते 'च भक्तिपूर्व तमाह्वयन् ॥ १६२ ॥ ततो' बूटसरखत्याचार्येण सह स प्रभुः । ययौ श्रीभोजभूनाथसभा स्वर्गमभानिमाम् ॥ १६३ ॥ राज्ञा नृपाङ्गणेऽनेच शिलैका निहिता तदा। गूजेराने निजप्राणस्फूर्तिदर्शनहेतवे ।। १६४॥ तत्र पूर्ण पुनश्छिद्रं प्राग विधाप्य पिधाय' च । तद्वर्णसमकल्केन तादृशोऽपि छलार्थिनः॥१६५।।-युग्मम् । आगच्छन्तं तदाऽऽलोक्य सूरि शरमिलापतिः । आकर्ण धनुराकृष्यामुचल्लक्षे दृशं दधन् ॥ १६६ ॥ 20 सूराचार्यश्व सूक्ष्मेक्षी कल्कालेपं तटस्थितम् । बाणापोत्कीर्णमालोक्य गर्भार्थ काव्यमनवीत् ॥ १६७ ॥ तथा हि विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन . श्रीमन् पाषाणभेदव्यसनरसिकां मुश्च मुश्च प्रसीद । वेधे कौतूहलं चेत् कुलशिखरिकुलं बाणलक्षीकरोषि 25 ___ध्वस्ताधारा धरित्री नृपतिलका सदा याति पातालमूलम् ॥ १६८॥ इत्यमद्भुतसामर्थ्यवर्णनात् तोषितो नृपः । अधृष्यप्रशमनं श्रीधनपालोऽपि बुद्धवान् ॥ १६९ ॥ व्यचिन्तयश्च बुद्धैव' विज्ञानं भूपतेरियम् । गर्भितोकिरहो जैना जीयन्ते केन मेधया ॥ १७०॥ निजाश्रयं ययौ श्रीमान् सूराचार्यों नृपार्चितः। ६७. राजाऽऽस्थानमथाऽऽस्थाय समस्तविदुषोऽवदत् ।। १७१ ॥ 30 गूर्जरोऽयं महाविद्वानाययौ श्वेतचीवरः । अनेन सार्ध कोऽपीह वादमुद्रां बिभर्तु वः ॥ १७२ ॥ पण्डितानां सहस्रार्धमध्ये सर्वेऽप्यवानमुखाः। भनास्वत्प्रतिघातेन घनगार्भका इव ।। १७३॥ विलक्षो नृपतिः प्राह किं गेहेनर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वज्जल्पा मुधा बुधाः ॥ १७४ ।। 1N व्यापकः। 2N तं च। 3 N ततथूडसर । 4N. नृपांगणामे च। 5A विधाय । 6 N सूरीश्वरमिला। 7N बुदिं च।

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588