Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 522
________________ 505 १९. अभयदेवसूरिचरितम् । १९. श्रीअभयदेवसूरिचरितम् । 10 श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात् सौमनसोद्भेदभास्वरः सर्वमौलिभूः ॥ १॥ आदृत्याष्टाङ्गयोगं यः स्वाङ्गमुद्धृत्य च प्रभुः । श्रुतस्य च नवाङ्गानां प्रकाशी स श्रिये द्विधा ॥ २ ॥ वदन् बालो यथाऽव्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३ ॥ ६१. अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकन्दफलं सद्वर्णवृत्तसूः ॥ ४॥ 5 तत्रास्ति नगरी धारा मण्डलायोदितस्थितिः । मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद् भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥ ६॥ तत्र लक्ष्मीपतिनाम व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत् ॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ । प्रहप्रज्ञावलाक्रान्तवेदविद्याविशारदौ ॥८॥ ___ अधीतपूर्विणौ सर्वान् विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥ ९॥ श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् । देशान्तरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १०॥-त्रिभिर्विशेषकम् । तौ पवित्रयतः स्मात्र लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षा ददौ भक्त्या तदाकृतिवशीकृतः ॥ ११ ।। गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥ १२ ॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसङ्कलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ जनो मत्पावतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किं तु मम किश्चिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान् मन्मुखादाहुतिप्रदाः। तर्पयन्तु फलं तु स्यात् तत्कर्मकरतैव मे ॥ १५ ॥ इतीव कुपितो वहिरद्वैकेनापि भस्मसात् । विधे तां पुरीमूरीकृतप्रतिकृतक्रियः॥१६॥-त्रिभिर्विशेषकम् । लक्ष्मीपतिद्धितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वखनाशतः खिन्नो लेख्यदाहाद् विशेषतः ॥१७॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लुष्टं च तदृष्ट्वा विषण्णाविदमूचतुः॥ १८॥ 20 यजमान ! तवोन्निद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किं तु सर्वदुःखातिशायिनी ॥ १९ ॥ पुनरीहकशुचाक्रान्तसत्त्ववृत्तिर्भवान् किमु । धीराः सत्त्वं न मुश्चन्ति व्यसनेषु भवादृशाः॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाद् दुःखं हि तादृशम् ॥ २१॥ यादृग्लेख्यकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत् क्रियते हि किम् ॥२२॥-युग्मम ! जजल्पतुश्च तावावां भिक्षावृत्ती 'तवापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेख्यक' पुनः ॥ २३ ॥ 25 श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ बरासने । न्यवेशयज्जनः स्वार्थपूरक ध्रुवमर्हति ॥ २४ ॥ तौ चादितः समारभ्यतिथिवारक्षेसङ्गतम् । व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः ॥ २५॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यात लेख्यकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६ ॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरी कौचित् प्राप्तौ मदनुकम्पया ॥ २७॥ यद्विशोपकमात्रेण वदन्तौ तावविस्मृतम् । दस्तरी-संपुटी'-पत्रनिरपेक्षं हि लेख्यकम् ॥ २८॥-युग्मम् । 80 ततः सन्मान्य सद्भोज्य वस्त्राद्यैर्बहुमानतः । खगेहचिन्तको तेन विहितौ हितवेदिना ॥ २९ ॥ जितेन्द्रियौ स तौ शान्तौ दृष्ट्रेति व्यमृशद् धनी। शिष्यो मद्गुरुपार्श्वेऽमू स्तां चेत् तत्संघभूषणौ ॥३०॥ 1 A D शिश्रियत् । 2 N व्यसनेन । 3 N °लेखक। 4 N नचापरं । 5 N दुस्तरीसंपुटे । 6 B °चित्रको। प्र०२१

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588