________________
505
१९. अभयदेवसूरिचरितम् । १९. श्रीअभयदेवसूरिचरितम् ।
10
श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात् सौमनसोद्भेदभास्वरः सर्वमौलिभूः ॥ १॥ आदृत्याष्टाङ्गयोगं यः स्वाङ्गमुद्धृत्य च प्रभुः । श्रुतस्य च नवाङ्गानां प्रकाशी स श्रिये द्विधा ॥ २ ॥
वदन् बालो यथाऽव्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३ ॥ ६१. अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकन्दफलं सद्वर्णवृत्तसूः ॥ ४॥ 5
तत्रास्ति नगरी धारा मण्डलायोदितस्थितिः । मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद् भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥ ६॥ तत्र लक्ष्मीपतिनाम व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत् ॥७॥
अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ । प्रहप्रज्ञावलाक्रान्तवेदविद्याविशारदौ ॥८॥ ___ अधीतपूर्विणौ सर्वान् विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥ ९॥
श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् ।
देशान्तरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १०॥-त्रिभिर्विशेषकम् । तौ पवित्रयतः स्मात्र लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षा ददौ भक्त्या तदाकृतिवशीकृतः ॥ ११ ।। गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥ १२ ॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसङ्कलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ जनो मत्पावतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किं तु मम किश्चिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान् मन्मुखादाहुतिप्रदाः। तर्पयन्तु फलं तु स्यात् तत्कर्मकरतैव मे ॥ १५ ॥ इतीव कुपितो वहिरद्वैकेनापि भस्मसात् । विधे तां पुरीमूरीकृतप्रतिकृतक्रियः॥१६॥-त्रिभिर्विशेषकम् । लक्ष्मीपतिद्धितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वखनाशतः खिन्नो लेख्यदाहाद् विशेषतः ॥१७॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लुष्टं च तदृष्ट्वा विषण्णाविदमूचतुः॥ १८॥ 20 यजमान ! तवोन्निद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किं तु सर्वदुःखातिशायिनी ॥ १९ ॥ पुनरीहकशुचाक्रान्तसत्त्ववृत्तिर्भवान् किमु । धीराः सत्त्वं न मुश्चन्ति व्यसनेषु भवादृशाः॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाद् दुःखं हि तादृशम् ॥ २१॥ यादृग्लेख्यकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत् क्रियते हि किम् ॥२२॥-युग्मम ! जजल्पतुश्च तावावां भिक्षावृत्ती 'तवापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेख्यक' पुनः ॥ २३ ॥ 25 श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ बरासने । न्यवेशयज्जनः स्वार्थपूरक ध्रुवमर्हति ॥ २४ ॥ तौ चादितः समारभ्यतिथिवारक्षेसङ्गतम् । व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः ॥ २५॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यात लेख्यकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६ ॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरी कौचित् प्राप्तौ मदनुकम्पया ॥ २७॥ यद्विशोपकमात्रेण वदन्तौ तावविस्मृतम् । दस्तरी-संपुटी'-पत्रनिरपेक्षं हि लेख्यकम् ॥ २८॥-युग्मम् । 80 ततः सन्मान्य सद्भोज्य वस्त्राद्यैर्बहुमानतः । खगेहचिन्तको तेन विहितौ हितवेदिना ॥ २९ ॥
जितेन्द्रियौ स तौ शान्तौ दृष्ट्रेति व्यमृशद् धनी। शिष्यो मद्गुरुपार्श्वेऽमू स्तां चेत् तत्संघभूषणौ ॥३०॥ 1 A D शिश्रियत् । 2 N व्यसनेन । 3 N °लेखक। 4 N नचापरं । 5 N दुस्तरीसंपुटे । 6 B °चित्रको।
प्र०२१