________________
प्रभावकचरिते
504
15
तथाऽन्तेवासिनोऽमी श्रीगुरुपादाग्रतो मम । क्ष(क्षणं नाकथयिष्यन्ताशिक्षिष्यत न च प्रभुः॥२३८॥ बालोऽहं यदि दर्पण न व्यधास्यं प्रतिश्रवम् । गुरुमस्तकहस्तस्य कः प्रमाणमथोच्यते ॥२३९॥-युग्मन् । इत्याकर्ण्य प्रभुयॊणः शोणहद इव स्थिरः । उवाच वाचमाचारचारुचारित्रचचुरः ॥ २४॥ एवं प्रतिश्रवं क्लीबदुष्करं विदधीत कः । निर्वाहयेत च श्रीमन् ! विना त्वामाप्तवाग्वरम् ॥ २४१ ॥ सगच्छ-सङ्घनश्च वयमाचामाम्लैरुपस्थिताः । आभवद्वदनालोकात् सम्यक्शासनदेवताम् ।। २४२॥ सगद्गदमुदित्वैवं स बाढं परिषस्वजे । गुरुभिश्वाथ भूपोऽपि श्रीभीमः प्राह सादरम् ॥ २४३ ।। मनीषी विनयी छेकस्तत्कालोत्पन्नबुद्धिमान् । त्वां विना दृश्यते नान्यस्तेजखी दृढधैर्यभूः ।। २४४॥ श्रीभोज छलयित्वा यत्तादृप्राज्ञपरिप्रहम् । आगत्याक्षतदेहस्त्वं मम तेजोऽभ्यवर्द्धय ॥ २४५॥ किश्चित् पृच्छामि सन्देहं नृपतिः स 'स्तुतो न वा । सूरसूरिरथ प्राह पयोवाहनिभध्वनिः ॥ २४६ ॥ रसना मे महाराज! त्वां विना स्तौति नापरम् ।.मदुक्तस्य च काव्यस्य भावार्थ शृणु कौतुकात् ॥२४७॥ शिला विद्धा सती विद्धा छिद्रे शरमुचां हि कः । विक्रमः कार्मुकक्रीडां मुश्च तद् व्याजतः कृताम् ॥२४८॥ व्यसने दृषदां भेदाद् भवतां पूर्वजो गिरिः । अर्बुदस्तस्य भेदे तु ध्वस्ताधारा धरित्र्यपि ॥ २४९ ।। पातालमूलं यान्तीयं शिक्षयेऽहमिति ब्रुवन् । अपि द्विषति सच्छिक्षा दातव्या शमजीवितैः ॥ २५० ॥ श्रीभीमः प्राह तच्छ्रुत्वा पुलकोद्भेदमेदुरः। मदन्धुना जिते भोजे का मे चिन्तास्ति तजये ॥ २५१ ॥
स्वसमीपे समारोप्य गजराजवरासने । सूराचार्यस्य भूपालः प्रवेशोत्सवमातनोत् ॥ २५२ ॥ ६११. अतीचारान् स विज्ञप्य गुरुपार्श्वे महामतिः । देशान्तरगतौ जातांस्तपसाऽशोधयद् दृढम् ॥ २५३॥
युगादिनाथ-श्रीनेमिचरिताद्भतकीर्तनात् । इतिवृत्तं द्विसन्धानं व्यधात् स कविशेखरः ॥ २५४॥ यः पूर्व पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादीन्द्रतया स समयोऽजयत् ॥ २५५ ॥ श्रीद्रोणसुरिणेङ्गिन्यां परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः 'सूरसद्गुरुः ।। २५६ ॥ प्रभावनाभिः श्रीसङ्घमुन्नमय्य श्रुतोदधिः । शिष्याग्निष्पाद्य सम्पाद्य जैनप्रवचनोन्नतिम् ॥ २५७॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पञ्चत्रिंशदिनमितं दधौ॥ २५८ ॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः ।
श्रीभीमभूपतेर्बन्धुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥-चतुर्भिः कलापकम् । श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोद
क्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाथ किश्चित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः
सेतुर्जाब्याम्बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६०॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसमभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीसूरसूरेः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽयमष्टादशः ॥ २६१ ॥ ॥ ग्रंथ० २६९, अ० २३ । उभयं ४२७७, अ० २८॥
॥ इति श्रीसूराचार्यप्रबन्धः ॥
20
1N बालोऽयं । 2 A D °माप्तवान् भर । 3 N°वीर्यभूः। 4 N ससुतो। 5 A विधात् । 6 N द्रोणसूरिणां गया। 7N सूर 8A D योगत्रितयरोधतः। 9CN वाप्य ।