Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
506
10
१६२
प्रभावकचरिते ६२. इतः सपादलक्षेऽस्ति नाम्ना कूर्चपुरं पुरम् । मषीकूर्चकमाधातुं यदलं शात्रवानने ॥ ३१ ॥ अल्लभूपालपौत्रोऽस्ति' प्राक्पोत्रीव' धराधरः ।
श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः ॥ ३२ ।। तत्रासीत् प्रशमश्रीभिर्वर्द्धमानगुणोदधिः । श्रीवर्द्धमान इत्याख्यः सूरिः संसारपारभूः ॥ ३३ ॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धान्ताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः॥३४॥ अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद् वाग्ब्रह्मधाराभिर्जनमुज्जीवयन्नयम् ॥ ३५ ॥ लक्ष्मीपतिस्तदाकर्ण्य श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्न-शाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ॥ ३६ ।। सर्वाभिगमपूर्व स प्रणम्योपाविशत् प्रभुम् । तौ विधाय निविष्टौ च करसम्पुटयोजनम् ॥ ३७॥ वर्यलक्षणवर्यां च दध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः सम्यक् स्वपरजित्वरी ॥ ३८ ॥ तौ च प्राग्भवसम्बद्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ ॥ ३९ ॥ देशनाभीशुभिर्ध्वस्ततामसौ बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च दीक्षितौ शिक्षितौ तथा* ॥ ४०॥ महाव्रतभरोद्धारधुरीणौ' तपसां निधी । अध्यापितौ च सिद्धान्तं योगोद्वहनपूर्वकम् ॥४१॥ ज्ञात्वौचित्यं च सूरित्वे स्थापितौ गुरुभिश्च तौ। 'शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥ ४२ ॥
जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥ ४३ ॥ 15 ददे शिक्षेति तैः श्रीमत्पत्तने 'चैत्यसूरिभिः । विघ्नं सुविहितानां स्यात् तत्रावस्थानवारणात् ॥ ४४ ।।
युवाभ्यामपनेतव्यं शक्त्या बुद्ध्या च तत् किल । यदिदानीतने काले नास्ति प्राज्ञो भवत्समः॥४५॥-युग्म ! अनुशास्ति प्रतीच्छाव इत्युक्त्वा गूर्जरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥ ४६॥ सद्गीतार्थपरीवारौ तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद् वाचां सस्मरतुर्गुरोः॥४७॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद् विशांपतिः । गीष्पतेरप्युपाध्यायो नीतिविक्रमशिक्षणे ॥ ४८ ॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत् पुरोहितः । तद्नेहे जग्मतुर्युग्मरूपी सूर्यसुताविव ।। ४९ ।। तहारे चक्रतुर्वेदोच्चारं सङ्केतसंयुतम् । तीर्थ सत्यापयन्तौ च ब्रामं पित्र्यं च दैवतम् ॥५०॥ चतुर्वेदीरहस्यानि सारणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव देवतावसरे ततः ।। ५१ ॥ तद्ध्वानध्याननिर्मग्नचेताः स्तम्भितवत् तदा । समग्रेन्द्रियचैतन्यं श्रुत्योरेव' स नीतवान् ॥ ५२ ॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतैः । आव्हानाय तयोः प्रैषीत् प्रेक्षापेक्षी द्विजेश्वरः ॥ ५३॥ तौ च दृष्ट्वान्तरायातौ दध्यावम्भोजभः किम । द्विधा भयाद आदत्त दर्शनं शस्यदर्शनम् ॥ ५४॥ हित्वा भद्रासनादीनि तदत्तान्यासनानि तौ । समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः ॥ ५५॥ वेदोपनिषदां जैनतत्त्वश्रुतगिरां तथा । वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥ ५६ ॥
तथा हिअपाणिपादो घमनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः।
स वेत्ति विश्वं नहि तस्यास्ति वेत्ता शिवो ह्यरूपी स जिनोऽवताद् वः ॥१७॥ ऊचतुश्चानयोः सम्यगवगम्यार्थसङ्ग्रहम् । दययाभ्यधिकं जैनं तत्रावामाद्रियावहि ॥५८॥ युवामवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ। न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः॥ ५९॥
90
1 N पुत्रोऽपि; 'वंश्यो' इति D टिप्पणी। 2 N शक्योऽतीव । * इदं पद्यं नोपलभ्यते N पुस्तके। 3 N सूरिणौ तपसो। 4 N सिद्धवासो। 5 N पत्तनैश्चैत्य। 6 N विक्षणातू । 7 D भुत्यामेव । 8N ह्यरूपः।

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588