Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
10
१५८ प्रभावकचरिते
502 तेषामेको महाप्राज्ञः प्रादान्मत्रं प्रभो ! शृणु । मा वैलक्ष्यं प्रपद्येथा रत्नगर्भा वसुन्धरा ॥ १७५ ॥ निर्जरा इव देहस्था गूर्जराः श्वेतभिक्षवः । दुर्जेयास्तदतो मनसाध्यं कार्यमिदं प्रभो ! ॥ १७६ ॥ छात्रः कोऽपि महाप्राज्ञ आषोडशसमावयाः। प्रमाणशास्त्रोपन्यासं पाठ्यतामशठः सुधीः ।। १७७ ॥ श्रुत्वेति भूपतिस्तुष्टिपुष्टः पण्डितवाक्यतः । अस्त्वेवमित्यवादीत् तत् त्वमेवैतत् कुरुष्व भो!॥ १७८ ॥ एकः पटुर्बटुः सौम्यः प्रज्ञावक्तृत्वशेवधिः । तर्कशास्त्रसदभ्यासोपन्यासं 'पाठतस्ततः ॥ १७९ ॥ अतिव्यक्ताक्षरं तेनादायि 'पाठो गुरोः पुरः । एतद् विज्ञाप्य राजानं मुहूर्तः शोधितः शुभः ॥ १८० ॥ ज्ञापितं वादसूराय सूराचार्याय भूभुजा । समाहूय च वादार्थ स्थापितोऽसौ वरासने ॥ १८१ ॥ पट्टवासोनिवसनश्छात्रः शृङ्गारितस्ततः । सुवर्णरत्नपुष्पाद्याभरणैः शरणैः श्रियः ॥ १८२ ॥ स्वमततं समारोप्य राजाह प्रतिवाद्यसौ । ततो जगाद वादीन्द्रः प्रकटाक्षरपद्धतिः॥१८३ ॥ क्षीरकण्ठः क्षीरगन्धवक्त्रोऽपवित्रमवागसौ । यूनां न उचितो नैव समानो विग्रहः खलु ॥ १८४ ॥ राजाह रभसा नायं बाल एवेति भाव्यताम् । शिशुरूपा बसौ ब्राह्मी जितेऽस्मिन् मत्सभा जिता ॥१८५॥ पूर्ववादो लघोरस्तु सूरिणोक्ते ततः शिशुः । यथालिखितपाठं च व्यक्तमस्खलिताक्षरम् ।। १८६॥ अपदच्छेदवाक्यं तं विशरारुविभक्तिकम् । शुण्वन्मेने बसावर्थावगमेन' विना वदेत् ॥१८७॥-युग्मम् । इत्येवं शङ्कया क्षुण्णं विमृशनिश्चिकाय च । पट्टिकापाठ एवायमीदृशोऽत्र नहीतरत् ॥ १८८ ॥ जल्पेद् यावद् रयेणासौ तावत् परुषशब्दतः । पाश्चात्यं तु पदं कूटं बभणे भवता हि भो!॥ १८९ ॥ . पुनर्भणेति स प्रोक्तो रभसेति ततोऽवदत् । पट्टिकायां ममेहरं लिखितं निश्चयो मम ॥ १९०॥ सराचार्य इति श्रुत्वा प्राह सन्तोषनिर्भरम् । यादृग् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ।। तदापृच्छामहे श्रीमन् ! भोजभूपालपुङ्गव!। अदर्शि मालवो देशो मण्डकाः स्वादिता अपि ॥१९२॥
इत्युक्त्वा प्रययौ सूरिर्मठं हठजितद्विषन् । लज्जा-मन्युभराक्रान्तो राजाऽऽस्थानं व्यसर्जयत् ॥ १९३ ।। 20 ६८. श्रीमान् बूटसरखत्याचार्यः प्राघुणमभ्यधात् ।
अस्माकं शासनोद्योतात् सुखं त्वन्मृत्युतोऽसुखम् ॥ १९४॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५ ॥ सूराचार्यस्ततोऽवादीद् वीरधोरणिधूर्धरः । खं रक्षिष्येऽहमात्मानं भवद्भिर्माऽनुतप्यताम् ।। १९६ ॥ तदा श्रीधनपालेन प्रेषितः" कविचक्रिणा । पुरुषो गूर्जराचार्य प्रोचे स्वस्वामिवाचिकम् ॥ १९७ ॥ पूज्याश्छलेन" केनापि मद्वेश्मायान्तु सत्वरम् । अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः ॥ १९८ ॥ मण्डनं सर्वदेशानां भवाहग विश्रुतः सुधीः । भाग्यातिशयतो मादृग्जनैर्दुर्लभ एव यत् ॥ १९९ ॥ मदर्शनानन्तरं च विधेया कापि नाधृतिः । सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २० ॥ अहो जागर्ति भाग्यं वः साधूनामिति भाषिणाम् । प्रातः क्षणेऽश्ववारेस्तच्चैत्यं "बाढमवेष्ट्यत ॥ २०१॥
सन्तोषाजयपत्रं" वः प्रदास्यति नृपाप्रणीः । विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२॥ । 30 इति वास्तव्यसूरिं तेऽभ्यधुर्विधुरिताननम् । आयास्थतीति तानाह शून्यतायातचेतनः ॥ २०३ ॥
मध्याहे कर्कशे सूर्यतापात् कुम्भे गुरो तदा । कृतवेषपरावर्ता दाम दत्वा दृढं गले ॥ २०४॥ तत्रत्यैकानगारेण प्रावृत्यासौ जरत्पटीम् । मलिनां निःसरंश्चैत्यद्वारेण जगदे भटैः ॥२०५॥-युग्मम् ।
25
1N समावयः। 2N पाठत°। 3N पाठं14 N पुष्पान्याभरणैः। 5 N समाने। 6N तत् । 7 N °वगमो न । 8N सप्तोके। 9N हतजितद्विषम् । 10N प्रेरितः। 11 N पूज्याश्च येन। 12 D प्रातरवेष्ट्यत; N वाटमवेश्यत । 13N सन्तोषजय।

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588