________________
501
१८. सूराचार्यचरितम् । उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्रस्थिताचारणहिल्लपुरादिते ॥ १४९ ॥ विशेषसम्भ्रमाञ्चक्रेऽध्यापकः' स्वागतादिकम् । उपावीविशदेषोऽपि प्रधानासनि तवयम् ॥ १५०॥ सूराचार्यस्ततः प्राह प्रन्थः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत्॥१५१॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह च्छात्रैः पटुस्खरमुवाच तम् ॥ १५२ ॥
तद्यथाचतुर्मुखमुखाम्भोजवनहंसवधर्मम ।
मानसे रमतां नित्यं शुद्धवर्णा सरखती ॥ १५३ ॥ मराचार्यस्ततः प्राह किञ्चिदत्तासगर्भितम । एवंजातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी साम्प्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५॥ चित्रमश्रुतपूर्व तदन्यत् पृच्छामि किञ्चन । मातुलस्य सुता गम्या यथाऽऽस्ते दक्षिणापथे ॥ १५६ ॥ 10 सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवदेशे तथा गम्याऽनुजाङ्गजवधूः कथम् ।। १५७ ॥ यद्वधूशब्दसामीप्ये 'मानसे रमतां मम । प्रयुक्तं तद् भवन्त्येव देशाचाराः पृथग्विधाः ॥ १५८॥ अनुत्तरं प्रतिहतश्वालयन्नन्यसंकथा: । कालं विलम्बयामासेष्टानध्यायकृतादरः॥१५९॥ सन्ध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः । अपराहेतिवृत्तं स जगौ विस्मयकारकम् ॥ १६०॥ भूपश्च विस्मितः प्राह सम्भाव्यं गूर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहूय निश्चितम् ॥ १६१ ॥ 15 तत्रस्थाचार्यपाधै च भूपालः प्रेषयन्नरान् । आह्वातुमतिथिं ते 'च भक्तिपूर्व तमाह्वयन् ॥ १६२ ॥ ततो' बूटसरखत्याचार्येण सह स प्रभुः । ययौ श्रीभोजभूनाथसभा स्वर्गमभानिमाम् ॥ १६३ ॥ राज्ञा नृपाङ्गणेऽनेच शिलैका निहिता तदा। गूजेराने निजप्राणस्फूर्तिदर्शनहेतवे ।। १६४॥ तत्र पूर्ण पुनश्छिद्रं प्राग विधाप्य पिधाय' च । तद्वर्णसमकल्केन तादृशोऽपि छलार्थिनः॥१६५।।-युग्मम् । आगच्छन्तं तदाऽऽलोक्य सूरि शरमिलापतिः । आकर्ण धनुराकृष्यामुचल्लक्षे दृशं दधन् ॥ १६६ ॥ 20 सूराचार्यश्व सूक्ष्मेक्षी कल्कालेपं तटस्थितम् । बाणापोत्कीर्णमालोक्य गर्भार्थ काव्यमनवीत् ॥ १६७ ॥
तथा हि
विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन . श्रीमन् पाषाणभेदव्यसनरसिकां मुश्च मुश्च प्रसीद । वेधे कौतूहलं चेत् कुलशिखरिकुलं बाणलक्षीकरोषि
25 ___ध्वस्ताधारा धरित्री नृपतिलका सदा याति पातालमूलम् ॥ १६८॥ इत्यमद्भुतसामर्थ्यवर्णनात् तोषितो नृपः । अधृष्यप्रशमनं श्रीधनपालोऽपि बुद्धवान् ॥ १६९ ॥ व्यचिन्तयश्च बुद्धैव' विज्ञानं भूपतेरियम् । गर्भितोकिरहो जैना जीयन्ते केन मेधया ॥ १७०॥
निजाश्रयं ययौ श्रीमान् सूराचार्यों नृपार्चितः। ६७.
राजाऽऽस्थानमथाऽऽस्थाय समस्तविदुषोऽवदत् ।। १७१ ॥ 30 गूर्जरोऽयं महाविद्वानाययौ श्वेतचीवरः । अनेन सार्ध कोऽपीह वादमुद्रां बिभर्तु वः ॥ १७२ ॥ पण्डितानां सहस्रार्धमध्ये सर्वेऽप्यवानमुखाः। भनास्वत्प्रतिघातेन घनगार्भका इव ।। १७३॥
विलक्षो नृपतिः प्राह किं गेहेनर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वज्जल्पा मुधा बुधाः ॥ १७४ ।। 1N व्यापकः। 2N तं च। 3 N ततथूडसर । 4N. नृपांगणामे च। 5A विधाय । 6 N सूरीश्वरमिला। 7N बुदिं च।