Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 492
________________ 475 १३१ १५. वीरसूरिचरितम् । तेनाकार्यानुयुक्तोऽथाभिज्ञानं पुनराह च । चतुर्विंशतिसंख्यानां स्वभावाख्यानतोऽहंताम् ॥ १२८ ॥ तथा हिबे धउला ये सामला बे रतुप्पलवन्न । मरगयवन्ना विन्नि जिण सोलस कंचणवन्न ॥ १२९॥ नियनियमाणिहिं कारविय भरहिं जि नयणाणंद। ते मई भाविहिं वंदिया ए चउवीस जिणंद ॥ १३०॥ राजाह स्खेष्टदेवानां स्वरूपकथने वरा । नास्ति प्रतीतिरस्माकमन्यत् किमपि कथ्यताम् ॥ १३१ ।। अक्षतान् दर्शयामास 'निःसामान्यगुणोदयान् । वर्णैः सौरभविस्तारैरपूर्वान् मानवव्रजे ॥ १३२ ॥ ते द्वादशाङ्गालायामा अङ्गलं पिण्डविस्तरे । अवेष्ट्यन्त सुवर्णेन महीपालेन ते ततः ॥ १३३ ॥ पूर्व तु रुष्क भङ्ग स्य तेऽभूवंस्तदुपाश्रये । अपूज्यन्त च सोनाष्टापदप्रतिबिम्बवत् ॥ १३४ ॥ 10 एवं चातिशयैः सम्यक् सामान्यजनदुस्तरैः । श्रीमान् वीरगणिः सूरिर्विश्वपूज्यस्तदाऽभवत् ॥ १३५ ॥ ६७. अन्यदा मत्रिणं वीरं रहः प्राह महीपतिः । पूर्वादिष्टक्रमान्याय्याद् राज्यं पालयतो मम ॥ १३६ ॥ सुमनोमण्डलाश्रेयो वचःसिद्धिकुलालयः । वीरो गुरुश्च मत्री च ममार्तीन्दुविधुन्तुदः ॥ १३७ ॥ एकश्चिन्ताज्वरोऽस्माकं 'महाबाधानिबन्धनम् । श्रुत्वा प्रतिविधेहीदं कस्याग्रेऽन्यस्य कथ्यते ॥ १३८ ॥ अथाह वीरमन्त्रीशः स्वामिन्नादिश्यतां मम । क्रियते भृत्यलेशेन किं मयाऽन्यदधीशितः ॥ १३९ ॥ 15 राजाह मम शुद्धान्तकान्तानां सम्भवे सति । स्रावो भवति गर्भस्य तत्र प्रतिविधि कुरु ॥ १४०॥ इत्यादिष्टो महामात्यः श्रीमद्वीरप्रभोः पुरः । व्यजिज्ञपत् ततः सूरिमूरीकृत्य स चाब्रवीत् ॥ १४१ ।। अभिमश्रितवासैमें क्रियतामभिषेचनम् । अवरोधपुरन्ध्रीणां प्रजायन्ते सुता यथा ॥ १४२ ।। एवं च विहिते मत्रिप्रभुणा वचने गुरोः । श्रीमदवल्लभराजाद्या नरेन्द्रस्याभवन् सुताः॥ १४३॥ ६८. अष्टादशशतीदेशे विहरनन्यदा प्रभुः। अगादंबरिणीग्रामे प्राम्येतरनरान्विते ।। १४४ ॥ 20 विशुद्धोपाश्रये तत्र स्थितो गत्वा निशागमे । व्युत्सर्गाय बहिःप्रेतवनमाशिश्रिये मुदा ॥ १४५॥ परमारवराम्नायसद्वज्राकरहीरकः । रुद्राभिधः स तं दृष्ट्वा नमश्चक्रेऽतिभक्तितः ।। १४६॥ उवाच च मुने! मास्थाः श्वापदब्रजसंकुले । श्मशाने ग्राममध्ये न आगच्छ प्रासुकाश्रये ॥ १४७॥ तिष्ठ सौख्यात् तदाकर्ण्य मुनिः प्राह गुरोः सदा । कायोत्सर्गे बहिः पृथव्यां कुर्वन्ति प्रभवस्ततः (?)॥१४८॥ आधेया नाधृती राजपुत्र ! श्रुत्वेति सोऽगमत् । निजं धाम ततस्तस्य जंबूपायनमागमत् ॥ १४९॥ 25 स सिस्वादयिषुर्जबूफलान्यत्रोटयत् तदा । वृन्तं तत्र कृमिं दृष्ट्वा शूकया' धूनयन् शिरः॥ १५० ॥ जगाद कृमयः सूक्ष्माः फलेष्वपि यदाऽभवन् । अदृष्टं किमिव स्वाद्यं निशादौ हि विवेकिना ॥ १५१ ॥ आहूय ब्राह्मणैः पृष्टः प्रायश्चित्तं प्रदेशितम् । विशुद्धये द्विजन्मभ्यो देयः स्वर्णमयः कृमिः ।। १५२ ॥ दध्यौ श्रुत्वेति संकल्प्य द्वितीयोऽपि कृमिर्मया । हन्तव्यो नावगच्छामि ततो धर्मममुं हृदि ।। १५३ ॥ प्रष्टव्यश्च विचारोऽयं कस्यापि शमिनो मुनेः। प्रातजैनमुनि प्राममध्यमागतमानमत् ॥ १५४ ॥ 30 ततः पप्रच्छ सन्देहं गुरुर्विस्तरतोऽवदत् । जीवाः सर्वत्र तिष्ठन्ति द्विधा स्थावरजङ्गमाः॥१५५ ॥ धरा-नीर-वह्नि-वात-महीरुहः । जङ्गमाश्च परिज्ञेयास्ते द्वि-त्रि-चतुरिन्द्रियाः ॥ १५६॥ पश्चेन्द्रियाः सुरास्तिर्यग्नरनैरयिका अपि । गजमीनमयूराद्याः स्थलनीलाम्बरोपगाः ॥ १५७ ॥ वनस्पतिस्तथा जीवाधारो मूलफलादिके । उत्पद्यन्ते विपद्यन्ते यज्जीवास्तत्र भूरिशः ॥ १५८॥ 1 N तैः सामा । 2 D महद् । 3 N नास्य । 4 N D राजपुत्रः। 5 N शंकया। 6 N भवेत् ।

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588