________________
475
१३१
१५. वीरसूरिचरितम् । तेनाकार्यानुयुक्तोऽथाभिज्ञानं पुनराह च । चतुर्विंशतिसंख्यानां स्वभावाख्यानतोऽहंताम् ॥ १२८ ॥
तथा हिबे धउला ये सामला बे रतुप्पलवन्न । मरगयवन्ना विन्नि जिण सोलस कंचणवन्न ॥ १२९॥ नियनियमाणिहिं कारविय भरहिं जि नयणाणंद।
ते मई भाविहिं वंदिया ए चउवीस जिणंद ॥ १३०॥ राजाह स्खेष्टदेवानां स्वरूपकथने वरा । नास्ति प्रतीतिरस्माकमन्यत् किमपि कथ्यताम् ॥ १३१ ।। अक्षतान् दर्शयामास 'निःसामान्यगुणोदयान् । वर्णैः सौरभविस्तारैरपूर्वान् मानवव्रजे ॥ १३२ ॥ ते द्वादशाङ्गालायामा अङ्गलं पिण्डविस्तरे । अवेष्ट्यन्त सुवर्णेन महीपालेन ते ततः ॥ १३३ ॥ पूर्व तु रुष्क भङ्ग स्य तेऽभूवंस्तदुपाश्रये । अपूज्यन्त च सोनाष्टापदप्रतिबिम्बवत् ॥ १३४ ॥ 10
एवं चातिशयैः सम्यक् सामान्यजनदुस्तरैः । श्रीमान् वीरगणिः सूरिर्विश्वपूज्यस्तदाऽभवत् ॥ १३५ ॥ ६७. अन्यदा मत्रिणं वीरं रहः प्राह महीपतिः । पूर्वादिष्टक्रमान्याय्याद् राज्यं पालयतो मम ॥ १३६ ॥
सुमनोमण्डलाश्रेयो वचःसिद्धिकुलालयः । वीरो गुरुश्च मत्री च ममार्तीन्दुविधुन्तुदः ॥ १३७ ॥ एकश्चिन्ताज्वरोऽस्माकं 'महाबाधानिबन्धनम् । श्रुत्वा प्रतिविधेहीदं कस्याग्रेऽन्यस्य कथ्यते ॥ १३८ ॥ अथाह वीरमन्त्रीशः स्वामिन्नादिश्यतां मम । क्रियते भृत्यलेशेन किं मयाऽन्यदधीशितः ॥ १३९ ॥ 15 राजाह मम शुद्धान्तकान्तानां सम्भवे सति । स्रावो भवति गर्भस्य तत्र प्रतिविधि कुरु ॥ १४०॥ इत्यादिष्टो महामात्यः श्रीमद्वीरप्रभोः पुरः । व्यजिज्ञपत् ततः सूरिमूरीकृत्य स चाब्रवीत् ॥ १४१ ।। अभिमश्रितवासैमें क्रियतामभिषेचनम् । अवरोधपुरन्ध्रीणां प्रजायन्ते सुता यथा ॥ १४२ ।।
एवं च विहिते मत्रिप्रभुणा वचने गुरोः । श्रीमदवल्लभराजाद्या नरेन्द्रस्याभवन् सुताः॥ १४३॥ ६८. अष्टादशशतीदेशे विहरनन्यदा प्रभुः। अगादंबरिणीग्रामे प्राम्येतरनरान्विते ।। १४४ ॥ 20 विशुद्धोपाश्रये तत्र स्थितो गत्वा निशागमे । व्युत्सर्गाय बहिःप्रेतवनमाशिश्रिये मुदा ॥ १४५॥ परमारवराम्नायसद्वज्राकरहीरकः । रुद्राभिधः स तं दृष्ट्वा नमश्चक्रेऽतिभक्तितः ।। १४६॥ उवाच च मुने! मास्थाः श्वापदब्रजसंकुले । श्मशाने ग्राममध्ये न आगच्छ प्रासुकाश्रये ॥ १४७॥ तिष्ठ सौख्यात् तदाकर्ण्य मुनिः प्राह गुरोः सदा । कायोत्सर्गे बहिः पृथव्यां कुर्वन्ति प्रभवस्ततः (?)॥१४८॥ आधेया नाधृती राजपुत्र ! श्रुत्वेति सोऽगमत् । निजं धाम ततस्तस्य जंबूपायनमागमत् ॥ १४९॥ 25 स सिस्वादयिषुर्जबूफलान्यत्रोटयत् तदा । वृन्तं तत्र कृमिं दृष्ट्वा शूकया' धूनयन् शिरः॥ १५० ॥ जगाद कृमयः सूक्ष्माः फलेष्वपि यदाऽभवन् । अदृष्टं किमिव स्वाद्यं निशादौ हि विवेकिना ॥ १५१ ॥ आहूय ब्राह्मणैः पृष्टः प्रायश्चित्तं प्रदेशितम् । विशुद्धये द्विजन्मभ्यो देयः स्वर्णमयः कृमिः ।। १५२ ॥ दध्यौ श्रुत्वेति संकल्प्य द्वितीयोऽपि कृमिर्मया । हन्तव्यो नावगच्छामि ततो धर्मममुं हृदि ।। १५३ ॥ प्रष्टव्यश्च विचारोऽयं कस्यापि शमिनो मुनेः। प्रातजैनमुनि प्राममध्यमागतमानमत् ॥ १५४ ॥ 30 ततः पप्रच्छ सन्देहं गुरुर्विस्तरतोऽवदत् । जीवाः सर्वत्र तिष्ठन्ति द्विधा स्थावरजङ्गमाः॥१५५ ॥
धरा-नीर-वह्नि-वात-महीरुहः । जङ्गमाश्च परिज्ञेयास्ते द्वि-त्रि-चतुरिन्द्रियाः ॥ १५६॥ पश्चेन्द्रियाः सुरास्तिर्यग्नरनैरयिका अपि । गजमीनमयूराद्याः स्थलनीलाम्बरोपगाः ॥ १५७ ॥ वनस्पतिस्तथा जीवाधारो मूलफलादिके । उत्पद्यन्ते विपद्यन्ते यज्जीवास्तत्र भूरिशः ॥ १५८॥
1 N तैः सामा । 2 D महद् । 3 N नास्य । 4 N D राजपुत्रः। 5 N शंकया। 6 N भवेत् ।