SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ प्रभावकचरिते १३२ 476 10 धर्मः कृपैव जीवानां विवेकस्थ | विचारय । इति संयमिनो वाचं स श्रुत्वा प्रत्यबुध्यत ॥ १५९ ॥ सर्व हित्वाऽग्रहीद दीक्षामक्षीणश्रेयसे स च । शास्त्रेष्वधीतपूर्वी च जैनागममवाचयत् ॥ १६॥ महाविद्वान् स गीतार्थः क्रिया-ज्ञानद्वयेऽप्यभूत् । प्रदीप इव दीपेन गुरुणा समदीधितिः ॥ १६१ ॥ श्रुतज्ञानात् परिज्ञाय स्वायुःपर्यन्तमन्यदा । गच्छभारं च शिष्येशे रुद्रे' श्रीवीरसूरयः ।। १६२ ॥ श्रीचन्द्रसूरिरित्याख्यापूर्वकं ते न्यवेशयन् । स्वयं तु योगरोधेन तस्थुर्निष्कंपसञ्चराः ॥ १६३ ॥ हित्वा देहं जरनेहमिव दिव्यभुवं ययुः। श्रीवीरप्रभवो बोधशक्तराधारतां गताः ॥ १६४ ॥ वसु-वहि-निधौ (९३८) जन्म, व्रतं व्योम-वसु-अहे (९८०)। ... इंद्र-नंद-ग्रहे (९९१) वर्षेऽवसानमभवत् प्रभोः ।। १६५ ॥ गार्हस्थ्यं समभवत् तस्य द्विचत्वारिंशतं समाः । एकादशव्रतेऽथायुखिपञ्चाशत्समा अभूत् ॥ १६६ ॥ श्रीवीरसूरेविदितं चरित्रं कर्णावतंसं कुरुतात्र सन्तः । उत्कण्ठते श्रीजिनबोधिलक्ष्मीर्यथा महानन्दसुखप्रबोधा ॥ १६७॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वीरस्य वृत्तं प्रभोः श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गस्तिथीसंख्यया ॥१६८॥ .. नवोऽयं प्रद्युम्नः शिवसहचरः प्रीतिमतुलां । ददौ सन्तोषाय प्रकटरिपवे यो रतिमपि । कवित्वक्षों दायामृतरुचिसखित्वं च मनुते । शुभध्यानोपायं परिहृतमदादिः स जयतु ॥ १६९॥ ॥ ग्रं० १७१ अ० ५। उभयं ३५११ अ०५॥ ॥ इति श्रीवीरगणिप्रबन्धः॥ 20 1A BN भदे। 2D°क्षोभाया ।
SR No.006031
Book TitlePrabhavak Charitra
Original Sutra AuthorN/A
AuthorPrabhachandrasuri, Jaydarshanvijay
PublisherJinagna Prakashan
Publication Year2008
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy