________________
447
११. बप्पभट्टिसूरिचरितम् ।
तथा हिरामो नाम बभूव हुं तदवला सीतेति हुं तां पितु
वाचा पंचवटीवने विचरतस्तस्याहरद् रावणः। निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः
*पूर्वस्मर्तुरवन्तु कोपकुटिलभ्रूभंगुरा दृष्टयः ॥ ५७२ ॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः ।
आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ ५७३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा _धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिंग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५७४ ॥ सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचते
धत्से यत्त्वपरां विलज शिरसा तच्चापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरेः कस्माद् विषं भक्षितम् मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ ५७५ ॥ यदमोघमपामन्तरुप्तं बीजमज त्वया।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे। ॥५७६ ॥ कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती त्वयैव ।
अबाह्यसंवित्सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चित्तम् ॥ ५७७॥ स कर्णकटुकं तच्च श्रुत्वा शीप व्यधूनयत् । आकूण्य नासिकां वाचं प्राहाथो दुर्मनायितः ॥ ५७८ ॥ 20 अमीषां रसकाव्यानां प्रशंसायाश्च किं सखे!। अ(इ)यं वेला कथं नाम सौहार्द तव चेदृशम् ।। ५७९ ।। इदं च श्रीबप्पभहिसदृशं भवतीह किम् । पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ५८० ॥ ततः प्राह गुरुः साधु साधु ते चेतना स्तुमः । प्रष्टव्यमस्ति किंचित्तु भवत्पार्श्वे सुहृत्तम ! ॥ ५८१ ॥ देवानां यन्मयाऽऽख्यायि स्वरूपं भवदग्रतः । तत्तथ्यं वितथं वास्ते 'तथ्यं चेदुर्मनाः कथम् ॥ ५८२ ।। वितथं च कथं तत्स्यात् प्रत्यक्ष संदीहीत' कः । अत्र कार्ये प्रवृत्तिस्ते राज्यादीच्छावशादिह ।। ५८३ ॥ 25 परमार्थोपलम्भे वा ?, विकल्पः प्रथमो यदि । संमतं नस्तदाऽऽराद्धा देवा भूपतयोऽपि च ।। ५८४ ॥ इष्टं प्रणयिनां दद्यः सामर्थ्यात् संशयोऽपि न । परमार्थे तु चेदिच्छा तत् त्वं तत्त्वं विचारय ।। ५८५ ॥ संसारोपाधिमग्नैश्चेत् सुरैर्मुक्तिः प्रदीयते । तन्नात्र मत्सरोऽस्माकं स्वयं निखिलवेद्यसि ॥ ५८६ ॥
-पंचभिः कुलकम् । श्रुत्वेति सद्गुरोर्वाचं पंकापनयवारिभाम् । अवलेपो ययौ तस्य हिकाऽकस्माद्भयादिव ।। ५८७ ॥ 30 अहो पुण्यपरीपाको मम यत् सूनृतः सुहृत् । संगतोऽवसरेऽमुत्र तत् तत्त्वोपकृतिं कुरु ॥ ५८८ ।। इत्युक्त्वा विरते दत्तावधाने वाक्पती प्रभुः । धर्म-देव-गुरूणां च तत्त्वान्याख्यात् तदग्रतः ।।-युग्मम् ।
• A आदर्श-'सौमित्रेयधनुर्धनुर्धनुरिति व्यक्ता गिरः पान्तु वः। एतादृशोऽयं चतुर्थः पादः । +A आदर्श नास्त्यसौ श्लोकः । 1 N B नास्ति । 2 N संदिहानकः। 3 N तत्र चोप।